सर्वोपभोगनिरतोह्नि परे दशम्यां स्नानं तिलैस्तिलनिवेदनकृत्तिलाशी
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उल्कानवमीव्रतवर्णनं नामैकाशीतितमोऽध्यायः
सुकृतद्वादशीव्रतवर्णनम् तदपापाय भवति तदाचक्ष्व यदूत्तम
उपवासप्रभावं वै कृष्णाराधनकांक्षिणाम्
आमुष्मिकं न तापाय प्रतापाय च जायते
उपोषितप्रभावं च कृष्णाराधनकांक्षिणाम्
वैदिशं नाम नगरं प्रख्यातं नृपसत्तम
भार्यया मातृदुहिता पुत्रपौत्रैः समन्वितः
पुत्रपौत्रादिभरणे व्यासक्तिर्मतिरेव च
चकारानुदिनं सोऽथ न्यायान्यायैर्द्धनार्जनम्
न जुहोत्युदिते काले न ददात्यतितृष्णया
नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणा 4.82.
कालेनागच्छतासोऽथ मृतो विंध्याटवीतटे
तं ददर्श महाभागो दिव्ययानसमन्वितः भास्करस्याशुभिर्द्दीप्तैर्दहंतमतिदारुणैः
प्रतप्तवालुकामध्ये तृषार्तं चातिपीडितम् निष्क्रांतजिह्वमंगेषु विस्फोटैः सर्वतश्चितम्
निश्वासायासखेदेन विह्वलं पीडितोदरम्
तथादृशमथो दृष्ट्वा गर्दभेयो महानृषिः
जानन्नपि यथाप्राप्तं तस्यानुष्ठानजं फलम्
उपर्यर्ककरैस्तीक्ष्णैस्तृषावातनिपीडितम्
अन्यस्तत्राणकैर्घोरैरविषह्यैः सुदारुणैः
तस्यैतद्वचनं श्रुत्वा विपीतस्य सवेदनः
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः ।। 4.82.
इदं करिष्याम्यपरं त्विदं कृत्वा त्विदं पुनः
शीतोष्णवर्षादिभवं लोभात्सोढं मयाऽशुभम्
पितृदेवमनुप्याणामदत्त्वा यापिता हि ये
पुत्रक्षेत्रकलत्रेषु ममत्वाहृतचेतसा
मृते मयि धने तस्मिन्नन्यायोपार्जिते सदा
न मया पूजिता गेहान्निर्गता द्विजसत्तमाः
यन्मे न पूजिता देवाः कुटुंबं पोषितं परम्
नित्यं नैमित्तिकं कर्म पूर्वेषां चैव नो कृतम्