प्रतिमासं च विप्राय दातव्या दक्षिणा तथा
यथाशक्त्या यथाप्रीत्या वित्तशाठ्यं विवर्जयेत्
पारणांते यथाशक्ति स्नापितः पूजितो हरिः
वर्षांते प्रतिमामिष्टां कारयित्वा सुशोभनाम्
पुष्पवस्त्रयुगच्छन्नां ब्राह्मणाय निवेदयेत्
द्वादशात्र प्रदातव्याः कुंभाः सान्नजलाक्षताः
एषा पुण्या पापहरा द्वादशी फलमिच्छताम् 4.80.
पूरयत्यखिलान्भक्त्या यतश्चैषां मनोरथान्
उपोष्यैतां त्रिभुवनं लब्धमिन्द्रेण वै पुरा
धौम्येनाध्ययनं प्राप्तमन्यैश्चाभिमतं फलम्
यंयं काममभिध्याय व्रतमेतदुपोषितम्
अपुत्रो लभते पुत्रमधनो लभते धनम्
समागमं प्रवसनैरुपोष्यैतामवाप्यते
नापुत्रो नाधनो ज्येष्ठो वियोगी न च निर्गुणः
स्वर्गलोके सहस्राणि वर्षाणामयुतानि च
इह पुण्यवतां नॄणां धनिनां लघुशालिनाम्
न द्वादशीमुपवसन्ति मनोरथाख्यां नैवार्चयंति पुरुषोत्तममादिदेवम् 4.80.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मनोरथद्वादशीव्रतवर्णनं नामाशीतितमोऽध्यायः
उल्कानवमीव्रतवर्णनम् पापं प्रशममायाति येन तद्वक्तुमर्हसि
यामुपोष्य परं पुण्यमाप्नुयाच्छ्रद्धयान्वितः
माघमासे च संप्राप्ते आषाढर्क्षं भवेद्यदि
गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु
कृष्णनाम्ना च संपूज्य एकादश्यां महामते
संस्तूय नाम्ना तेनैव कृष्णाख्येन पुनःपुनः
ततश्च प्राशयेच्छस्तांस्तथा कृष्णतिलान्नृप
कृष्णकुंभांस्तिलैः सार्द्धं पक्वान्नेन च संयुताः ब्राह्मणेभ्यः प्रदेयास्ते यथावन्माससंख्यया
तिलप्ररोहाज्जायंते यावत्संख्यास्तिला नृप अरोगो जायते नित्यं नरो जन्मनिजन्मनि
अंधो न बधिरश्चैव न कुष्ठी न च कुत्सितः 4.81.
अनेन पार्थ विधिना तिलदाता न संशयः
दानं विधिस्तथा श्राद्धं सर्वपातकशांतये