हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः
पातालसंस्थां वसुधां यां प्रसाद्य मनोरथा
यमभ्यर्च्य दिवि प्राप्तः सकलांश्च मनोरथान्
मनोरथानभिनवान्प्राप्तवांश्च मनोहरान् भुञ्जीत प्रयतः सम्यग्हविष्यं पांडुनन्दन
फाल्गुने चैत्रे वैशाखे ज्येष्ठे मासि च सत्तम
रक्तपुष्पैश्च चतुरो मासा न्कुर्वीत चार्चनम्
हविष्यान्नं च नैवेद्यमात्मनश्चापि भोजनम् 4.80.१
जातीपुष्पाणि धूपश्च शस्तः सार्जरसो नृप
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत्
सुगंधिश्चेच्छया धूपं पूजा भृंगारकेन च
प्रतिमासं च विप्राय दातव्या दक्षिणा तथा
यथाशक्त्या यथाप्रीत्या वित्तशाठ्यं विवर्जयेत्
पारणांते यथाशक्ति स्नापितः पूजितो हरिः
वर्षांते प्रतिमामिष्टां कारयित्वा सुशोभनाम्
पुष्पवस्त्रयुगच्छन्नां ब्राह्मणाय निवेदयेत्
द्वादशात्र प्रदातव्याः कुंभाः सान्नजलाक्षताः
एषा पुण्या पापहरा द्वादशी फलमिच्छताम् 4.80.
पूरयत्यखिलान्भक्त्या यतश्चैषां मनोरथान्
उपोष्यैतां त्रिभुवनं लब्धमिन्द्रेण वै पुरा
धौम्येनाध्ययनं प्राप्तमन्यैश्चाभिमतं फलम्
यंयं काममभिध्याय व्रतमेतदुपोषितम्
अपुत्रो लभते पुत्रमधनो लभते धनम्
समागमं प्रवसनैरुपोष्यैतामवाप्यते
नापुत्रो नाधनो ज्येष्ठो वियोगी न च निर्गुणः
स्वर्गलोके सहस्राणि वर्षाणामयुतानि च
इह पुण्यवतां नॄणां धनिनां लघुशालिनाम्
न द्वादशीमुपवसन्ति मनोरथाख्यां नैवार्चयंति पुरुषोत्तममादिदेवम् 4.80.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मनोरथद्वादशीव्रतवर्णनं नामाशीतितमोऽध्यायः
उल्कानवमीव्रतवर्णनम् पापं प्रशममायाति येन तद्वक्तुमर्हसि
यामुपोष्य परं पुण्यमाप्नुयाच्छ्रद्धयान्वितः