किं तत्र वद कर्तव्यमच्छिद्रं येन जायते
वैकल्यं प्रशमं याति शृणुष्व गदतो मम कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम्
स्नातो नारायणं ब्रूयाद्भुञ्जन्नारायणं तथा
पञ्चगव्यजलस्नातो विशुद्धात्मा जितेन्द्रियः इदमुच्चारयेत्पश्चाद्देवस्य पुरतो हरेः
सप्तजन्मनि यत्किञ्चिन्मया खण्डव्रतं कृतम्
यथाखंडं जगत्सर्वं त्वमेव पुरुषोत्तम
चतुर्भिरपि मासैस्तु पारणं प्रथमं स्मृतम्
चैत्रादिषु च मासेषु चतुर्गुण्यं तु पारणम्
श्रावणादिषु मासेषु कार्त्तिकांतेषु पारणम्
सौवर्णं रौप्यं ताम्रं च मृन्मयं पात्रमिष्यते
एवं संवत्सरस्यांते ब्राह्मणान्स जितेन्द्रियः 4.79.
वस्त्राभरणदानैश्च प्रणिपत्य क्षमापयेत्
एवं सम्यग्यथान्याय्यमखंडद्वादशीं नरः
सप्तजन्मसु वैकल्यं यद्व्रतस्य क्वचित्कृतम्
तस्मादेषा प्रयत्नेन नरैः स्त्रीभिश्च सुव्रत
ये द्वादशीव्रतमखंडमिति प्रसिद्धं मार्गोत्तमाङ्गमधिकृत्य कृतेन येन
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽखंडद्वादशीव्रतवर्णनं नामैकोनाशीतितमोऽध्यायः
मनोरथद्वादशीव्रतवर्णनम् नरो वा यदि वा नारी समभ्यर्च्य जगत्पतिम्
हरेर्नाम वदन्भक्त्या भावयुक्तो युधिष्ठिर
ततोन्यस्मिन्दिने प्राप्ते द्रादश्यां नियतो हरिम्
हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः
पातालसंस्थां वसुधां यां प्रसाद्य मनोरथा
यमभ्यर्च्य दिवि प्राप्तः सकलांश्च मनोरथान्
मनोरथानभिनवान्प्राप्तवांश्च मनोहरान् भुञ्जीत प्रयतः सम्यग्हविष्यं पांडुनन्दन
फाल्गुने चैत्रे वैशाखे ज्येष्ठे मासि च सत्तम
रक्तपुष्पैश्च चतुरो मासा न्कुर्वीत चार्चनम्
हविष्यान्नं च नैवेद्यमात्मनश्चापि भोजनम् 4.80.१
जातीपुष्पाणि धूपश्च शस्तः सार्जरसो नृप
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत्
सुगंधिश्चेच्छया धूपं पूजा भृंगारकेन च