विप्राय दक्षिणां दद्याद्यथाशक्त्या नराधिप
पाखंडिभिर्विकर्मस्थैरालापांश्च विवर्जयेत्
गोदोहतः समुद्भूतं प्राश्नीयादात्मशुद्धये
तेनैव नाम्ना संपूज्य दत्त्वा विप्राय दक्षिणाम्
एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः
पारिते च पुनर्वषे गोविन्दं पद्मया सह
विशेषतः पुनर्दद्यात्तस्मिन्नह्नि गवाह्निकम् 4.78.
स्वर्णशृंगं रौप्यखुरं गोशतैर्वृषभं वरम्
तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः
गोविन्दद्वादशीमेतां समुपोष्य विधानतः
गोविन्दमर्चयति गोरसभोजनस्तु गा वै विनोदयति तद्वद्गवाह्निकश्च
इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोविन्दद्वादशीव्रतवर्णनं नामाष्टसप्ततितमोऽध्यायः
अखण्डद्वादशीव्रतवर्णनम् दानधर्मे कृतं यस्य विपाकं वद यादृशः
वैकल्यात्फलवैकल्यं यादृश तच्छृणुष्व मे
उपवासान्विना खण्डं प्राप्नुवंत्येव ताञ्छृणु
रूपं तथोत्तरं प्राप्य व्रतवैकल्यदोषतः
उपवासी नरः पत्नीं नारीं प्राप्य तथा पतिम्
ये द्रव्ये सत्यदातारस्तथान्ने सत्यनग्नयः
वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः
ते सर्वे व्रतवैकल्यात्फल वैकल्यमागताः उपवासेन कर्तव्यं वैकल्याद्विकलं फलम्
किं तत्र वद कर्तव्यमच्छिद्रं येन जायते
वैकल्यं प्रशमं याति शृणुष्व गदतो मम कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम्
स्नातो नारायणं ब्रूयाद्भुञ्जन्नारायणं तथा
पञ्चगव्यजलस्नातो विशुद्धात्मा जितेन्द्रियः इदमुच्चारयेत्पश्चाद्देवस्य पुरतो हरेः
सप्तजन्मनि यत्किञ्चिन्मया खण्डव्रतं कृतम्
यथाखंडं जगत्सर्वं त्वमेव पुरुषोत्तम
चतुर्भिरपि मासैस्तु पारणं प्रथमं स्मृतम्
चैत्रादिषु च मासेषु चतुर्गुण्यं तु पारणम्
श्रावणादिषु मासेषु कार्त्तिकांतेषु पारणम्
सौवर्णं रौप्यं ताम्रं च मृन्मयं पात्रमिष्यते