तस्माद्यूयं मुनिश्रेष्ठा ज्ञात्वा संध्यां समागताम्
स्नात्वा केदारकुण्डे ते मनसा पूजयञ्छिवम्
समाधिनिष्ठास्ते सर्वे वर्षमेकं व्यतीतयन्
एतस्मिन्नंतरे राजा विक्रमादित्यभूपतिः
उषित्वा ते तु मुनयः सूतं गत्वाऽब्रुवन्निदम्
वाजिमेधं च नृपतेः कारयामस्त्वदाज्ञया
तथेत्युक्त्वा तु सूतस्तैः सार्धं च पुनरागमत्
पूर्वे तु कपिलस्थानं दक्षिणे सेतुबन्धनम्
हयो जगाम तरसा ततः क्षिप्रां नदीं गतः
नृपयज्ञे सुराः सर्वे सपत्नीकाः समागताः
यज्ञांते विविधं दानं दत्त्वा वैतालसंयुतः 3.2.23.१
भोभो राजन्महाभाग कलौ प्राप्ते भयंकरे
दत्त्वा सुधामयं तोयं चंद्रश्चान्तर्दधे पुनः
दत्तं राज्ञा तदमृतं शक्रः स्वर्गमुमुपागतः
तस्मिन्काले द्विजः कश्चिज्जयन्तो नाम विश्रुतः
जयन्तो भर्तृहरये लक्षस्वर्णेन वर्णयन्
विक्रमादित्य एवास्य राज्यमकंटकम्
शौनकाद्यास्तु ऋषयो ज्ञात्वा भूपस्य स्वर्गतिम्
तेभ्यः सूतः पुराणानि श्रावयामास वै पुनः ते श्रुत्वा मुनयः सर्वे जग्मुर्हृष्टाः स्वमालयम्
इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोविंशोऽध्यायः
पृच्छन्ति विनयेनैव सूतं पौराणिकं खलु
भगवन्ब्रूहि लोकानां हितार्थाय चतुर्युगे
विनायासेन वै कामं प्राप्नुयुर्मानवाः शुभम्
जगत्त्राणहेतुं रिपौ धूम्रकेतुं सदा सत्यनारायणं स्तौमि देवम्
श्रीरामं सहलक्ष्मणं सकरुणं सीतान्वितं सात्त्विकं वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्यसंहारकम्
कलिकलुषविनाशं कामसिद्धिप्रकाशं सुरवरमुखभासं भूसुरेण प्रकाशम्
एकदा नारदो योगी परानुग्रहवांच्छया
तत्र दृष्ट्वा जनान्सर्वान्नानाक्लेशसमन्वितान्
केनोपायेन चैतेषां दुःखनाशो भवेद्ध्रुवम्
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् 3.2.24.