पारणं चैव देवेश प्रीणनं भक्तिपूर्वकम्
नक्तं भुंजीत सततं तैलक्षारविवर्जितम्
एवं संवत्सरस्यांते यदभिप्रेतमात्मनः शय्यां वा ब्राह्मणे दद्यात्केशवः प्रतिगृह्यताम्
एतामुपोष्य विधिना विष्णुप्रीतौ च तत्परः ततो लोकेषु विख्यातं संप्राप्तं द्वादशीति वै ।। 4.77.
कृताभिलषिता दृष्टा प्रारब्धा धर्मतत्परैः
संप्राप्तिकामुपवसंति समीहितार्था ये मानवा मनु जपुंगव विष्णुभक्ताः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संप्राप्तिद्वादशीव्रतं नाम सप्तसप्ततितमोऽध्यायः
गोविन्दद्वादशीव्रतवर्णनम् तस्याः सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम्
पौषे मासे सिते पक्षे द्वादश्यां समुपोषितः
धूपपुष्पोपचारैश्च नैवेद्यैश्च समाहितः
विप्राय दक्षिणां दद्याद्यथाशक्त्या नराधिप
पाखंडिभिर्विकर्मस्थैरालापांश्च विवर्जयेत्
गोदोहतः समुद्भूतं प्राश्नीयादात्मशुद्धये
तेनैव नाम्ना संपूज्य दत्त्वा विप्राय दक्षिणाम्
एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः
पारिते च पुनर्वषे गोविन्दं पद्मया सह
विशेषतः पुनर्दद्यात्तस्मिन्नह्नि गवाह्निकम् 4.78.
स्वर्णशृंगं रौप्यखुरं गोशतैर्वृषभं वरम्
तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः
गोविन्दद्वादशीमेतां समुपोष्य विधानतः
गोविन्दमर्चयति गोरसभोजनस्तु गा वै विनोदयति तद्वद्गवाह्निकश्च
इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोविन्दद्वादशीव्रतवर्णनं नामाष्टसप्ततितमोऽध्यायः
अखण्डद्वादशीव्रतवर्णनम् दानधर्मे कृतं यस्य विपाकं वद यादृशः
वैकल्यात्फलवैकल्यं यादृश तच्छृणुष्व मे
उपवासान्विना खण्डं प्राप्नुवंत्येव ताञ्छृणु
रूपं तथोत्तरं प्राप्य व्रतवैकल्यदोषतः
उपवासी नरः पत्नीं नारीं प्राप्य तथा पतिम्
ये द्रव्ये सत्यदातारस्तथान्ने सत्यनग्नयः
वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः
ते सर्वे व्रतवैकल्यात्फल वैकल्यमागताः उपवासेन कर्तव्यं वैकल्याद्विकलं फलम्