इति धूपमंत्रः त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम्
इति दीपमंत्रः भक्ष्यभोज्यसमायुक्तं प्रसीद परमेश्वर
अन्नं प्रजापतिर्विष्णू रुद्रेंद्रशशिभास्कराः
इति नैवेद्यमंत्रः जलाशयो जगद्योनिः प्रीयतां मे जनार्दनः
इति प्रीणनमंत्रः नतोऽस्मि मथुरावासं माधवं मधुसूदनम्
नमो वामनरूपाय नमस्तेऽस्तु त्रिविक्रम
इति नमस्कारमंत्रः 4.76.
अघौघसंक्षयं कृत्वा सर्वकामप्रदो भव
इति प्रार्थनामंत्रः विश्वेश्वरश्च विष्णुश्च श्रीशायी च नमोनमः
इति शयनमंत्रः जागरं तत्र कुर्वीत गीतवादित्रनिस्वनैः
या च श्रवणसंयुक्ता द्वादशी परमा तिथिः
एवं संपूज्य यत्नेन प्रभाते विमले सति
ब्राह्मणश्चापि मन्त्रेण प्रतिगृह्णीत मंत्रवत्
( ॐ गुह्ये । ॐ शिरसि । ॐ पादयोः । ॐ नाभौ ।। ॐ भुजयोः । ॐ सर्वांगे । सर्वात्मने नमः नरो दद्यादुपोष्यैवमेकादश्यां समंत्रकम्
पूर्वोक्तविधिना प्रातर्भोजनं पृषदाज्यकम्
भूयोभूयोऽपि राजेंद्र सर्वत्रैवं विधिः स्मृतः
चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया 4.76.
इहागत्य भवेद्राजा प्रतिपक्षक्षयंकरः
रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत्
एतस्याः फलमाख्यातमेकादश्या मया तव
उपोष्यैकादशीं पश्चाद्द्वादशीमप्युपोषयेत्
(एकादशीद्वादश्योरन्यतरस्यां श्रवणयुक्तायां श्रवणयुक्तोपवासेनैव बतद्वयसिद्धिः बुधश्रवणसंयुक्ता द्वादशी संगमोदकम्
सगरेण ककुत्स्थेन धुंधुमारेण गाधिना
सा द्वादशी बुधयुता श्रवणेन साकं स्याद्वै जयाय कथिता ऋषिभिर्नभस्ये
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयश्रवणद्वादशीव्रतवर्णनं नाम षट्सप्ततितमोऽध्यायः
सम्प्राप्तिद्वादशीव्रतवर्णनम् पौषादिपारणं मासैः षड्भिर्ज्येष्ठांतिकं स्मृतम्
प्रथमं पुंडरीकाक्षं नाम कृष्णस्य गीयते
पुरुषोत्तमाख्यं तु ततः पंचमेऽच्युतसंज्ञकम्
पूर्वोक्तेषु च मासेषु स्नानप्राशन योस्तिलाः
स्नानं च प्राशनं चैव पंचगव्यं सदेष्यते । प्रतिमासं च देवेश कृत्वा पूजां यथाविधि