ततो दैत्यगणान्सर्वाञ्जित्वा त्रिभुवनं वशी
तत्र त्वमीप्सितान्भोगान्भुक्त्वा मद्बाहुपालितः
एवमुक्तो बलिः प्रायान्नमस्कृत्य नरोत्तमम्
स्वानि धिष्ण्यानि गच्छध्वं तिष्ठध्वं विगत ज्वराः
देवः कृत्वा जगत्कार्यं तत्रैवांतर्द्धिमागमत् । तेनेष्टा देवदेवस्य सर्वदा विजया तिथिः
एषा वै फाल्गुने मासि पुष्येण सहिता नृप
एकादश्यां सोपवासो रात्रौ संपूजयेद्धरिम् 4.76.
कुंडिकां स्थापयेत्पार्श्वे छत्रं वै पादुके तथा
आच्छाद्य पात्रं वासोभिः फलैश्चापि सुशोभनैः
तिलाढकेन वित्ताढ्यः प्रस्थेन कुडवेन वा
पुष्पैर्गंधैर्धूपदीपैः पक्वान्नै रर्चयेद्धरिम्
स्वस्ववित्तानुसारेण सहिरण्यं च कारयेत् भक्तिमांश्च गुणोपेतं कोटिकोटिगुणोत्तरम्
एभिर्मंत्रपदैस्तत्र पूजयेद्गरुडध्वजम्
ॐ जलजोपमदेहाय जलजास्याय शंखिने
नमः कमलनाभाय नमस्ते जल शायिने
इति स्नानमंत्रः मया निवेदितं तुभ्यं गृहाण परमेश्वर
इति चन्दनमंत्रः मया निवेदितं पुष्पं गृहाण पुरुषोत्तम ।। 4.76.
इति पुष्पमन्त्रः मनोहरवपुःस्कन्धधृतचक्राय शार्ङ्गिणे
इति पूजामंत्रः रामो रामश्च कृष्णश्च नामभिर्वामनाय ते
इति सर्वांगपूजा अच्युतानंत गोविन्द वासुदेव नमोऽस्तु ते
इति धूपमंत्रः त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम्
इति दीपमंत्रः भक्ष्यभोज्यसमायुक्तं प्रसीद परमेश्वर
अन्नं प्रजापतिर्विष्णू रुद्रेंद्रशशिभास्कराः
इति नैवेद्यमंत्रः जलाशयो जगद्योनिः प्रीयतां मे जनार्दनः
इति प्रीणनमंत्रः नतोऽस्मि मथुरावासं माधवं मधुसूदनम्
नमो वामनरूपाय नमस्तेऽस्तु त्रिविक्रम
इति नमस्कारमंत्रः 4.76.
अघौघसंक्षयं कृत्वा सर्वकामप्रदो भव
इति प्रार्थनामंत्रः विश्वेश्वरश्च विष्णुश्च श्रीशायी च नमोनमः
इति शयनमंत्रः जागरं तत्र कुर्वीत गीतवादित्रनिस्वनैः