बलवानजितो दैत्यो बलिर्नामा महाबलः ततो देवा महाविष्णुं गत्वा वचनमूचिरे
जहि दैत्यं महाबाहो बलिं बलनिषूदन
उवाच वाक्यं कालज्ञो देवानां हितकाम्यया
तपसा भावितात्मानं शान्तं दान्तं जितेन्द्रियम् तपसोन्तः सुबहुना काले नास्य भविष्यति
यदा विनयसम्पन्नं ज्ञास्ये कालेन केनचित्
अदितिर्मां प्रपन्ना वै पुत्रार्थे पुत्रलोभिनी
तद्देवानां हितं सर्वे चाहितं तु सुरद्विषाम् 4.76.
एवमुक्ता गता देवाः कार्यं विष्णुरचिंतयत् अदितिर्वरयामास वांछितं मे भविष्यति
अथ काले बहुतिथे गते सा गर्भिणी ह्यभूत्
ह्रस्वपादं ह्रस्वकायं महच्छिरसमर्भकम्
दृष्ट्वा तु वामनं जातं यदि सा वक्तुमुद्यता
एकादश्यां भाद्रपदे श्रवणेन नरोत्तम
भयं बभूव दैत्यानां देवानां तोष आभवत्
चकार कश्यपो धीमान्प्रजापतिरनुद्यतः
कुशस्वच्छोदकधरः कमंडलुविभूषितः
दृष्ट्वा बलिमथोवाच वामनोऽभ्येत्य तत्क्षणम्
पादत्रयप्रमाणेन पठनार्थे स्थितो ह्यसि 4.76.
ततो वर्द्धितुमारब्धो वामनोऽनंतविक्रमः
ताभ्यामिंद्रादिकाँल्लोकाँल्ललाटे ब्रह्मणः पदम्
तद्दृष्ट्वा महदाश्चर्यं सिद्धा देवर्षयस्तथा
ततो दैत्यगणान्सर्वाञ्जित्वा त्रिभुवनं वशी
तत्र त्वमीप्सितान्भोगान्भुक्त्वा मद्बाहुपालितः
एवमुक्तो बलिः प्रायान्नमस्कृत्य नरोत्तमम्
स्वानि धिष्ण्यानि गच्छध्वं तिष्ठध्वं विगत ज्वराः
देवः कृत्वा जगत्कार्यं तत्रैवांतर्द्धिमागमत् । तेनेष्टा देवदेवस्य सर्वदा विजया तिथिः
एषा वै फाल्गुने मासि पुष्येण सहिता नृप
एकादश्यां सोपवासो रात्रौ संपूजयेद्धरिम् 4.76.
कुंडिकां स्थापयेत्पार्श्वे छत्रं वै पादुके तथा
आच्छाद्य पात्रं वासोभिः फलैश्चापि सुशोभनैः
तिलाढकेन वित्ताढ्यः प्रस्थेन कुडवेन वा