ब्रह्मस्वहारिणस्त्वेते पापाः प्रेतत्वमागताः
मित्रद्रोहरताः केचिद्देशेऽस्मिंस्तु सुदारुणे
अक्षय्यो भगवान्कृष्णः परमात्मा सनातनः
मया विहीनाः किं त्वेते वनेऽस्मिन्भृशदारुणे
एतेषां त्वं महाभाग ममानुग्रहकाम्यया
अस्तु कक्षागता चैव तव संपुटिका शुभा 4.75.
गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते
एवं सम्भाषमाणोऽसौ तप्तजांबूनदप्रभः
स्वर्गते प्रेतनाथे तु प्रभावात्स वणिक्पुमान्
तत्र प्राप्य निधिं गत्वा विनिक्षिप्य स्वके गृहे प्रेतानां क्रमशस्तत्र चक्रे श्राद्धं दिनेदिने
यस्ययस्य गयाश्राद्धं स करोति दिने वणिक्
ब्रवीति च महाभाग प्रसादेन तवानघ
स कृत्वा धनलोभाच्च प्रेतानां सत्कृतिं वणिक्
श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम्
महानदीसंगमेषु प्रतिवर्षं युधिष्ठिर
अवाप परमं स्थानं दुर्लभं चात्र मानवैः शीतलामलपानीयाः पुष्करिण्यो मनोहराः ।। 4.75.
तं देशमासाद्य वणिङ् महात्मा सुतप्तजांबूनदभूषितांगः
इति श्रीभविष्ये महा पुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रवणद्वादशीव्रतवर्णनं नाम पञ्चसप्ततितमोऽध्यायः
विजयश्रवणद्वादशीव्रतवर्णनम् सर्वपापप्रशमनः सर्वसौख्यप्रदायकः
एकादशी यदा सा स्याच्छ्रवणेन समन्विता
बलवानजितो दैत्यो बलिर्नामा महाबलः ततो देवा महाविष्णुं गत्वा वचनमूचिरे
जहि दैत्यं महाबाहो बलिं बलनिषूदन
उवाच वाक्यं कालज्ञो देवानां हितकाम्यया
तपसा भावितात्मानं शान्तं दान्तं जितेन्द्रियम् तपसोन्तः सुबहुना काले नास्य भविष्यति
यदा विनयसम्पन्नं ज्ञास्ये कालेन केनचित्
अदितिर्मां प्रपन्ना वै पुत्रार्थे पुत्रलोभिनी
तद्देवानां हितं सर्वे चाहितं तु सुरद्विषाम् 4.76.
एवमुक्ता गता देवाः कार्यं विष्णुरचिंतयत् अदितिर्वरयामास वांछितं मे भविष्यति
अथ काले बहुतिथे गते सा गर्भिणी ह्यभूत्
ह्रस्वपादं ह्रस्वकायं महच्छिरसमर्भकम्