कृतातिथ्यो यथालाभं गमिष्यसि यथासुखम्
मध्याह्नसमये प्राप्ते ततस्तं देशमागतः दध्योदनसमायुक्तो वर्धमानेन संयुतः
आगते करके तस्मिन्प्रादादतिथये तदा वितृष्णो विज्वरश्चैव क्षणेन समपद्यत
ततस्तु प्रेतसंघस्य भोक्तुकामस्य वै ददौ
अतिथिं तर्पयित्वा च प्रेतलोकं च सर्वशः
तस्य भुक्तवतश्चान्नं पानीयं च क्षयं ययौ 4.75.
आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे
स्तोकेन च तथान्नेन बिभर्षि सुबहून्पृथक्
अपरं च कथं चेह मम पापपरिक्षयः तृप्तश्चासि कथं ग्रासमात्रेण च शुभव्रत
कस्त्वमस्यां सुघोरायामटव्यां तु कृतालयः
एवमुक्तः स वाणिज्या प्रेतो वचनमब्रवीत
शाकले नगरे रम्ये अहमासं सुदुर्मतिः
धनलोभान्मया तत्र कदाचिच्च प्रमादिना
प्रतिवेशे च तत्रासीद्ब्राह्मणो गुणवान्मम
स कदाचिन्मया सार्धं तोषां नाम नदीं ययौ
चंद्रभागा सोमसुता तोषा चैवार्कनंदिनी 4.75.
तत्तीर्थवरमासाद्य प्रातिवेश्यः स च द्विजः
चंद्रभागातोषयोश्च वारिधान्यैर्नवैर्दृढैः
छत्रोपानद्युगं वस्त्रं प्रतिमां विधिवद्धरेः
एतत्कृत्वा गृहं प्राप्तस्ततः कालेन केनचित् अस्यामटव्यां घोरायां यथा दृष्टस्त्वयानघ
ब्रह्मस्वहारिणस्त्वेते पापाः प्रेतत्वमागताः
मित्रद्रोहरताः केचिद्देशेऽस्मिंस्तु सुदारुणे
अक्षय्यो भगवान्कृष्णः परमात्मा सनातनः
मया विहीनाः किं त्वेते वनेऽस्मिन्भृशदारुणे
एतेषां त्वं महाभाग ममानुग्रहकाम्यया
अस्तु कक्षागता चैव तव संपुटिका शुभा 4.75.
गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते
एवं सम्भाषमाणोऽसौ तप्तजांबूनदप्रभः
स्वर्गते प्रेतनाथे तु प्रभावात्स वणिक्पुमान्
तत्र प्राप्य निधिं गत्वा विनिक्षिप्य स्वके गृहे प्रेतानां क्रमशस्तत्र चक्रे श्राद्धं दिनेदिने