द्वादशी श्रवणोपेता यदा भवति भारत सोपवासः समाप्नोति नात्र कार्या विचारणा
जलपूर्णे तथा कुंभे स्थापयित्वा विचक्षणः
तस्य स्कंधे सुघटितं स्थापयित्वा जनार्दनम्
स्नापयित्वा विधानेन सितचंदन चर्चितम्
ॐ नमो वासुदेवायेति शिरः संपूजयद्धरेः
ॐ नमः श्रीमते वक्षो भुजौ सर्वास्त्रधारिणे 4.75.
त्रैलोक्यजनकायेति एवं संपूजयेद्धरिम्
अनेन विधिना राजन्पुष्पैर्धूपैः समर्चयेत्
सोदकांश्च नवान्कुंभाञ्छक्त्या दद्याद्विचक्षणः
प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम् ततः पुष्पांजलिं बद्ध्वा मंत्रमेतमुदीरयेत्
नमो नमस्ते गोविन्द बुधश्रवण संज्ञक
एवं संपूज्य गोविंद ब्राह्मणं पूजयेत्ततः पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत्
द्वादश्यां श्रवणे युक्ते अशेषाहस्करान्विते
श्रीकृष्ण उवाच अत्राप्युदाहरंतीममितिहासं पुरातनम्
देशो दशार्णको नाम तस्य भागे तु पश्चिमे
सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः 4.75.
शमीखदिरपालाशकरीरैः पीलुभिः सह
दग्धप्राणिगणाकीर्णा यत्र भूर्द्दृश्यते क्वचित्
कदाचिदपि दृश्यंते भ्राम्यन्तो हि विहगमाः उत्कृत्तजीविता राजन्दृश्यंते विहगोत्तमाः
तृषातुराश्च सहसा मृगाः सैकतमागताः
तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक्
पिशाचान्मलिनांस्तीक्ष्णान्निर्मांसान्भीमदर्शनान्
बभ्रामोद्भ्रांतहृदयः क्षुत्तृषाभ्रमकर्षितः
अथ प्रेतान्ददर्शासौ तृष्णाव्याकुलितेंद्रियान्
प्रेतस्कंधसमारूढमेकं प्रेतं ददर्श ह
आगच्छन्तं तमव्यग्रं स्रुतुशब्दपुरःसरम् 4.75.
स दृष्ट्वाथ वणिक्छ्रेष्ठमिदं वचनमब्रवीत्
तमुवाच वणिग्धीमान्सार्थभ्रष्टस्य चैव मे
तृष्णा मां बाधतेऽत्यर्थं क्षुद्दुनोति भृशं तथा अत्रोपायं न पश्यामि जीवेयं येन केनचित्
पुंनागमिममाश्रित्य प्रतीक्षस्व मुहूर्तकम्