व्याख्यानकुशलाः केचिच्छ्रावयेयुरतंद्रिताः
यजमानो नयेद्धीमान्यावत्सूर्योदयो भवेत्
मंत्रैस्तु वैष्णवैर्दिव्यैः क्षपयेयुर्महीपते 4.74.
क्षीरेणाज्येन वा राजन्सर्वसिद्धि प्रदायिनीम्
स्नानं कुर्यान्नृपश्रेष्ठ नद्यां सरसि वा पुनः
ततः शुक्लानि वस्त्राणि परिधाय यतव्रतः
पुष्पैर्धूपैः सनैवेद्यैः पूजयेत्पु रुषोत्तमम्
पूजयेद्ब्राह्मणान्सर्वान्होतारो यज्ञकल्पिताः
आचार्यः पूजनीयोऽत्र सर्वस्वेनापि भारत
वित्तशाठ्यविहीनस्तु भक्तिशक्तिसमन्वितः
तेषामन्नं हिरण्यं च दद्याच्छुद्धेन चेतसा
यथाविभवसारेण पश्चाद्भुंजीत वाग्यतः
एवं यज्ञो महाराजश्चोक्तस्ते संप्रकीर्तितः 4.74.
वाजपेयातिरात्राभ्यां ये यजंति शतं समाः
सप्त जन्मानि सौभाग्यमायुरारोग्यसंपदः
मृतो विष्णुपुरं याति विष्णुना सह मोदते
रुद्रलोके तथा राजन्युगानि द्वादशैव तु
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः
व्रतमेतत्पुरा चीर्णं सगरेण महात्मना
अन्यैश्च पृथिवीपालैः पालिताशेषभूतलैः
भृग्वाद्यैर्मुनिभिः सर्वैर्ब्राह्मणैर्वेदपारगैः
अद्यप्रभृति चैवेयं ख्यातिं यास्यति भूतले
एषा पुलस्त्यमुनिना कथिता कुरुनंदन 4.74.
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते विष्णुभक्तेन कर्तव्या संसारभयभीरुणा
भीमेन या किल पुरा समुपोषिता च रात्रौ घटस्थिरसुशतिलवारिधारा
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भीमद्वादशीव्रतवर्णनं नाम चतुःसप्ततितमोऽध्यायः
श्रवणद्वादशीव्रतवर्णनम् एका या द्वादशी पुण्या तां वदस्व ममानघ
सर्वकामप्रदा पुण्या चोपवासे महाफला
संगमे सरितां स्नात्वा द्वादश्यां समुपोषितः
बुधश्रवणद्वादश्यामेवं वै संयतो भवेत्