हव्येन तर्पिता देवा न मांसे रक्तसंभवैः
फलाऽद्यैः कारयामास तदा पूर्णाहुतीर्नृप नगरं दाहयामास नरनारीसमन्वितम्
महामायाप्रभावेण शंभुदत्तः शिवप्रियः 3.2.22.
तदा लीलाधरो विप्रो दशपुत्रोपजीवकः
क्षत्रसिंहस्तु नृपतिर्मोहनान्तिकमाययौ
तदंबायै नमस्तुभ्यं महावीरायै नमोनमः
जप्त्वा सप्तशतीं विष्णुर्वैष्णवीं शक्तिमाप्तवान्
प्रणवास्तनया यस्यास्तुरीयपुरुषप्रिया
यस्या देहे स्थितं विश्वं तदंबायै नमोनमः
शची सिद्धिस्तथा मृत्युः प्रभा गीर्वाणसैनिकाः लोकपालप्रिया त्वं हि लोकमातर्नमोनमः
तृष्णा तृप्ती रतिर्न्नीतिर्हिंसा क्षांतिर्मतिर्गतिः
इत्यष्टकप्रभावेण क्षत्रसिंहो महीपतिः
तस्मात्त्वं विक्रमादित्य भज दुर्गां सनातनीम् 3.2.22.
प्रश्नोत्तरेण भूपाल मया त्वं संपरीक्षितः
दस्युनष्टाः पुरीः सर्वाः क्षेत्राणि विविधानि च
यो नृपः सर्वतीर्थानि पुनरुद्धारयिष्यति
विक्रमाख्यानकालोऽयं पुनर्धर्मं करोति हि
तदन्ते भुवि कृष्णांशो भविष्यति महा बली
सूताद्या मुनयः सर्वे नैमिषारण्यवासिनः भविष्यंति महाराज पुराणश्रवणे रताः
इत्युक्त्वा स तु वैतालस्तत्रैवान्तरधीयत
तस्माद्यूयं मुनिश्रेष्ठा ज्ञात्वा संध्यां समागताम्
स्नात्वा केदारकुण्डे ते मनसा पूजयञ्छिवम्
समाधिनिष्ठास्ते सर्वे वर्षमेकं व्यतीतयन्
एतस्मिन्नंतरे राजा विक्रमादित्यभूपतिः
उषित्वा ते तु मुनयः सूतं गत्वाऽब्रुवन्निदम्
वाजिमेधं च नृपतेः कारयामस्त्वदाज्ञया
तथेत्युक्त्वा तु सूतस्तैः सार्धं च पुनरागमत्
पूर्वे तु कपिलस्थानं दक्षिणे सेतुबन्धनम्
हयो जगाम तरसा ततः क्षिप्रां नदीं गतः
नृपयज्ञे सुराः सर्वे सपत्नीकाः समागताः