वंशानुचरितं चैव पुराणं पञ्चलक्षणम् । चतुर्दशभिर्विद्याभिर्भूषितं कुरुनन्दन
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः
प्रथमं कथ्यते सर्गो भूतानामिह सर्वशः । यच्छ्रुत्वा पापनिर्मुक्तो याति शान्तिमनुत्तमाम्
जगदासीत्पुरा तात तमोभूतमलक्षणम् । अविज्ञेयमतर्क्यं च प्रसुप्तमिव सर्वशः
ततः स भगवानीशो ह्यव्यक्तो व्यञ्जयन्निदम् । महाभूतानि वृत्तौजाः प्रोत्थितस्तमनाशनः
योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुत्थितः
योऽसौ षड्विंशको लोके तथा यः पुरुषोत्तमः । भास्करश्च महाबाहो परं ब्रह्म च कथ्यते
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अत एव ससर्जादौ तासु वीर्यमवासृजत्
यस्मादुत्पद्यते सर्वं सदेवासुरमानुषम् । बीजं शुक्रं तथा रेत उग्रं वीर्यं च कथ्यते
वीर्यस्यैतानि नामानि कथितानि स्वयम्भुवा । तदण्डमभवद्धैमं ज्वालामालाकुलं विभो
यस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । सुरज्येष्ठश्चतुर्वक्त्रः परमेष्ठी पितामहः
क्षेत्रज्ञः पुरुषो वेधाः शम्भुर्नारायणस्तथा । पर्यायवाचकैः शब्दैरेव ब्रह्मा प्रकीर्त्यते
सदा मनीषिभिस्तात विरञ्चिः कञ्जजस्तथा । आपो नारा इति प्रोक्ता आपो वै नरसूनवः
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः । अरमित्येव शीघ्राय नियताः कविभिः कृताः
आप एवार्णवीभूत्वा सुशीघ्रास्तेन ता नराः । यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम्
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्त्यते । एवं स भगवानण्डे तत्त्वमेव निरूप्य वै
ध्यानमास्थाय राजेन्द्र तदण्डमकरोद्द्विधा । शकलाभ्यां च राजेन्द्र दिवं भूमिं च निर्ममे
अन्तर्व्योम दिशश्चाष्टौ वारुणं स्थानमेव हि । ऊर्ध्वं महान्गतो राजन् समन्ताल्लोकभूतये
महतश्चाप्यहंकारस्तस्माच्च त्रिगुणा अपि । त्रिगुणा अतिसूक्ष्मास्तु बुद्धिगम्या हि भारत
उत्पत्तिहेतुभूता वै भूतानां महतां नृप । तेषामेव गृहीतानि शनैः पञ्चेन्द्रियाणि तु
तथैवावयवाः सूक्ष्माः षण्णामप्यमितौजसाम्
संनिवेश्यात्ममात्रासु स राजन्भगवान्विभुः । भूतानि निर्ममे तात सर्वाणि विधिपूर्वकम्
यन्मूर्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयाणि षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः
महान्ति तानि भूतानि आविशन्ति ततो विभुम् । कर्मणा सह राजेन्द्र सगुणाश्चापि वै गुणाः
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्वयम्
भूतादिमहतस्तात येन व्याप्तमिदं जगत् । तस्मादपि महाबाहो पुरुषाः पञ्च एव हि
केचिदेवं परां तात सृष्टिमिच्छन्ति पण्डिताः । अन्येऽप्येवं महाबाहो प्रवदन्ति मनीषिणः
योऽसावात्मा परस्तात कल्पादौ सृजते तनुम् । प्रजनश्च महाबाहो सिसृक्षुर्विविधाः प्रजाः
तेन सृष्टः पुद्गलस्तु प्रधानं विशते नृप । प्रधानं क्षोभितं तेन विकारान्युजते बहून्