यदुपोष्य न दुःखानां भाजनो जायते जनः
माघमासे सिते पक्षे द्वादशी पावनी स्मृता
विधिना केन विप्रेन्द्र तन्मे ब्रूहि यथाक्रमम्
तव शुश्रूषणाद्वाच्यं ममाप्येतन्न संशयः ।। 4.74.
अदीक्षिताय नो देया नाशिष्याय कदाचन
वाच्यमेतन्महाराज भवतान्यस्य न क्वचित्
कृतघ्नो मित्रध्रुक्चौरः क्षुद्रो भग्नव्रतस्तथा
शुद्धे तिथौ मुहूर्ते च मंडपं कारयेत्ततः
तन्मध्ये पञ्चहस्तां तु वेदिकां परिकल्पयेत्
विलिखेन्मंडलं तत्र पंचवर्णैर्विधानतः
पञ्चविंशतितत्त्वज्ञः स्वाचाराभिरतस्तथा
ब्राह्मणांस्तेषु युंजीत चातुश्चरणिकाञ्छुभान्
प्रत्यङ्मुखं न्यसेद्देवं चतुर्बाहुमरिंदम
गन्धैः पुष्पैस्तथा धूपैर्नैवेद्यैर्विविधैरपि 4.74.
न्यसेत्स्तंभद्वयं पश्चात्तिष्ठन्काष्ठसमन्वितम्
षट्त्रिंशदंगुलं श्रेष्ठं चतुरस्रं समंततः
आरोपयेद्धटं तत्र यादृशं तच्छृणुष्व मे
सर्वलक्षणसंयुक्तं दृढं व्यंगविवर्जितम्
कुशलत्वानुरूपेण पाशैकच्छिद्रमेव वा
होमार्थं कल्पयेच्चापि पालाश्यः समिधः शुभाः
वेद्याः पूर्वोत्तरे भागे ग्रहपीठं प्रकल्पयेत्
पूर्वस्यां दिशि शक्रस्य पूजां कुर्वीत यत्नतः ३८ कुबेरस्य तथोदीच्यां बलिं कुर्यात्फलाक्षतैः
समालभ्य शुभैर्गंधैर्द्दर्भपाणिरतंद्रितः 4.74.
यजमानोऽपि देवस्य संमुखः प्रयतः शुचिः
नमस्ते देवदेवेश नमस्ते भुवने श्वर
ततोदकस्य धारास्ताः प्रत्यंगषु समन्विताः
होमं कुर्युस्ततो विप्रा दिक्षु सर्वासु तत्पराः
वादित्रैस्ताड्यमानैश्च शंखगेय स्वनैस्तथा
मंगलैः स्तुतिसंयुक्तैः कारयेत्तन्महोत्सवम्
हरिवंशादिकं सर्वं श्रावयेद्ब्राह्मणो वरः