पप्रच्छ कुशलप्रश्नं तपस्यध्ययने तथा
धर्मे च ते मतिर्नित्यं कच्चित्पार्थिव वर्तते
तव चागमनेनाहं पावितः संगवारिणा
एवं तौ संविदं कृत्वा संभाष्याथ परस्परम् 4.74.
ततः कथांते राजेन्द्र पुलस्त्यं जातविस्मयः
भगवन्प्राणिनः सर्वे संसारार्णवमध्यगाः
नरके गर्भवासे च व्याधिभिर्जन्मना तथा
लालप्यमाना बहवः परपीडोपजीविनः
दृष्ट्वैव तानि तान्येव भृशं मे व्याधितं मनः
उपकारकरं ब्रूहि ममानुग्रहकाम्यया
यदुपोष्य न दुःखानां भाजनो जायते जनः
माघमासे सिते पक्षे द्वादशी पावनी स्मृता
विधिना केन विप्रेन्द्र तन्मे ब्रूहि यथाक्रमम्
तव शुश्रूषणाद्वाच्यं ममाप्येतन्न संशयः ।। 4.74.
अदीक्षिताय नो देया नाशिष्याय कदाचन
वाच्यमेतन्महाराज भवतान्यस्य न क्वचित्
कृतघ्नो मित्रध्रुक्चौरः क्षुद्रो भग्नव्रतस्तथा
शुद्धे तिथौ मुहूर्ते च मंडपं कारयेत्ततः
तन्मध्ये पञ्चहस्तां तु वेदिकां परिकल्पयेत्
विलिखेन्मंडलं तत्र पंचवर्णैर्विधानतः
पञ्चविंशतितत्त्वज्ञः स्वाचाराभिरतस्तथा
ब्राह्मणांस्तेषु युंजीत चातुश्चरणिकाञ्छुभान्
प्रत्यङ्मुखं न्यसेद्देवं चतुर्बाहुमरिंदम
गन्धैः पुष्पैस्तथा धूपैर्नैवेद्यैर्विविधैरपि 4.74.
न्यसेत्स्तंभद्वयं पश्चात्तिष्ठन्काष्ठसमन्वितम्
षट्त्रिंशदंगुलं श्रेष्ठं चतुरस्रं समंततः
आरोपयेद्धटं तत्र यादृशं तच्छृणुष्व मे
सर्वलक्षणसंयुक्तं दृढं व्यंगविवर्जितम्
कुशलत्वानुरूपेण पाशैकच्छिद्रमेव वा
होमार्थं कल्पयेच्चापि पालाश्यः समिधः शुभाः