मत्प्रसादाद्धर्मपुत्र बलं कीर्तिर्यशो धनम्
ये करिष्यंति मद्भक्तास्तेषां दास्यामि हृद्गतम् 4.73.
भांडीरपादपतले मिलितैर्महद्भिर्मल्लैरनाकुलितबाहुबलैर्बलिष्ठैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मल्लद्वादशीव्रतवर्णनं नाम त्रिसप्ततितमोऽध्यायः
भीमद्वादशीव्रतवर्णनम् दमयंत्याः पिता पूर्वं नलस्य श्वशुरो भुवि
सत्यवादनशीलश्च प्रजापालनतत्परः
तस्यापि कुर्वतो राज्यं शास्त्रदृष्टेन कर्मणा
सर्वज्ञाननिधिः श्रीमांस्तीर्थयात्राप्रसंगतः
उत्थाय प्रददौ राजा स्वमासनमभीप्सितम्
राज्यं चैवात्मना सार्द्धं निवेद्य स कृतांजलिः
पप्रच्छ कुशलप्रश्नं तपस्यध्ययने तथा
धर्मे च ते मतिर्नित्यं कच्चित्पार्थिव वर्तते
तव चागमनेनाहं पावितः संगवारिणा
एवं तौ संविदं कृत्वा संभाष्याथ परस्परम् 4.74.
ततः कथांते राजेन्द्र पुलस्त्यं जातविस्मयः
भगवन्प्राणिनः सर्वे संसारार्णवमध्यगाः
नरके गर्भवासे च व्याधिभिर्जन्मना तथा
लालप्यमाना बहवः परपीडोपजीविनः
दृष्ट्वैव तानि तान्येव भृशं मे व्याधितं मनः
उपकारकरं ब्रूहि ममानुग्रहकाम्यया
यदुपोष्य न दुःखानां भाजनो जायते जनः
माघमासे सिते पक्षे द्वादशी पावनी स्मृता
विधिना केन विप्रेन्द्र तन्मे ब्रूहि यथाक्रमम्
तव शुश्रूषणाद्वाच्यं ममाप्येतन्न संशयः ।। 4.74.
अदीक्षिताय नो देया नाशिष्याय कदाचन
वाच्यमेतन्महाराज भवतान्यस्य न क्वचित्
कृतघ्नो मित्रध्रुक्चौरः क्षुद्रो भग्नव्रतस्तथा
शुद्धे तिथौ मुहूर्ते च मंडपं कारयेत्ततः
तन्मध्ये पञ्चहस्तां तु वेदिकां परिकल्पयेत्
विलिखेन्मंडलं तत्र पंचवर्णैर्विधानतः