मुच्यते पातकेभ्यो वा पाठको विष्णुलोकभाक्
यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृतिपञ्चदशीनिरुद्धम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भीष्म पंचकव्रतवर्णनं नाम द्विसप्ततितमोऽध्यायः
मल्लद्वादशीव्रतवर्णनम् ब्रूहि मे मल्लद्वादश्या विधानं देवकीसुत
गोपालमध्ये गोवत्सैरष्टवर्षोस्मि लीलया
कंसासुरवधार्थाय मथुरोपवने तदा
समेत्य मल्लगोपस्य बलेन सह कानने
सुरभद्रो मंडलीकयोगवर्द्धनयोगदाः
गोपीनामपि नामानि प्राधान्येन निबोध मे
इल्वानुगन्धा सुभगा तारका दशमी तथा
पूजितोऽस्मि सुरैः पुष्पैर्दधिदुग्धाक्षतैस्तथा
मल्लिन्यश्च सुरामांसैरंगजागरनर्त्तनैः
भक्ष्यैर्भोज्यैस्तथा पानैर्दधिदुग्धघृतासवैः 4.73.
गोष्ठीप्रभूतैर्वधूनां स्नेहसंभाषणैर्मिथः
संबंधिभिः क्रमेणैव मल्लानां च पृथक्पृथक्
मासादिकार्तिकांतं च भक्त्या द्वादशनामभिः
केशवनारायणमाधवगोविन्दविष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेशपद्मनाभदामोदराणां नमोनम इति
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्जागरणैर्निशि ।। गीतवाद्यैश्च नृत्यैश्च मल्लक्ष्वेडांगयुद्धकैः
घृतदानैः क्षीरदानैः कृष्णो मे प्रीयता मिति
द्वादशी या ममाद्यापि मनसः प्रीतिवर्द्धनी
मत्प्रसादाद्धर्मपुत्र बलं कीर्तिर्यशो धनम्
ये करिष्यंति मद्भक्तास्तेषां दास्यामि हृद्गतम् 4.73.
भांडीरपादपतले मिलितैर्महद्भिर्मल्लैरनाकुलितबाहुबलैर्बलिष्ठैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मल्लद्वादशीव्रतवर्णनं नाम त्रिसप्ततितमोऽध्यायः
भीमद्वादशीव्रतवर्णनम् दमयंत्याः पिता पूर्वं नलस्य श्वशुरो भुवि
सत्यवादनशीलश्च प्रजापालनतत्परः
तस्यापि कुर्वतो राज्यं शास्त्रदृष्टेन कर्मणा
सर्वज्ञाननिधिः श्रीमांस्तीर्थयात्राप्रसंगतः
उत्थाय प्रददौ राजा स्वमासनमभीप्सितम्
राज्यं चैवात्मना सार्द्धं निवेद्य स कृतांजलिः