गुग्गुलुं घृतसंयुक्तं दहेत्कृष्णाय भक्तितः
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत्
जुहुयाच्च घृताक्तांश्च तिलव्रीहींस्ततो व्रती
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम्
सर्वमेतद्विधानं च कार्यं पंचदिनेषु हि
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्नरः
पूजयेच्च तृतीयेऽह्नि नाभिं भृङ्गरसेन च
ततोऽनुपूजयेच्छीर्षं मालत्याः कुसुमैर्नवैः
अर्चयित्वा हृषीकेशमेकादश्यां समाहितः
गोमूत्रं मंत्रवत्कृत्वा द्वादश्यां प्राशयेद्व्रती 4.72.
संप्राश्य कायशुद्ध्यर्थं लंघयेत चतुर्दिनम्
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
ततो नक्तं समश्नीयात्पञ्चगव्यपुरःसरम्
सर्वपापहरं पुण्यं प्रख्यातं भीष्मपञ्चकम्
तद्भीष्मपञ्चकं त्यक्त्वा प्राप्नोत्भ्ययधिकं फलम्
यत्प्राप्नोति महत्पुण्यं तत्कृत्वा भीष्मपंचकम्
ब्रह्मलोकमवाप्नोति त्यक्त्वैकं भीष्मपञ्चकम्
यत्फलं कार्त्तिकेनोक्तं भवेत्तद्भीष्मपञ्चके
फलं समीहितं प्राप्य कृत्वाभ्यर्च्य जनार्दनम्
खड्गहस्तातिविकृता सर्वलोकमयी नृप 4.72.
ब्राह्मणाय प्रदातव्या कृष्णो मे प्रीयतामिति
अन्येषामपि दातव्यं यत्कृत्वा वसु वांछितम्
शांतचेता निराबाधः परं पदमवाप्नुयात्
ऽ अष्टषष्ठैकनयनः शंकुकर्णो महास्वनः
चिंतनीयो महादेवो यस्य रूपं न विद्यते
तदेव ते समाख्यातं दुष्करं भीष्मपंचकम्
यस्तस्मिंस्तोषयेद्भक्त्या तस्मै मुक्तिप्रदोऽच्युतः
प्राप्नोति वैष्णवं स्थानं सत्कृत्वा भीष्मपञ्चकम्
मुच्यते पातकात्सम्यक्कृत्वैकं भीष्मपञ्चकम्
अथास्मिंस्तोषितो विष्णुर्नृणां मुक्तिप्रदो भवेत् 4.72.