ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः
पराधिः परिहर्तव्यो ब्रह्मचर्येण निष्ठया
शाकाहारपरैश्चैव कृष्णार्चनपरैर्नरैः
विधवाभिश्च कर्तव्यं पुत्रपौत्रादिब्रुद्धये
नित्यं स्नानेन दानेन कार्त्तिकी यावदेव तु
नद्य निर्झरगर्ते वा समालभ्य च गोमयम्
देवानृषीन्पितॄंश्चैव ततोन्यान्कामचारिणः
ततोऽनुपूजयेद्देवं सर्वपापहरं हरिम्
तत्रैव पञ्चगव्येन गंधचंदनवारिणा
कर्पूरोशीर मिश्रेण लेपयेद्गरुडध्वजम् 4.72.
गुग्गुलुं घृतसंयुक्तं दहेत्कृष्णाय भक्तितः
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत्
जुहुयाच्च घृताक्तांश्च तिलव्रीहींस्ततो व्रती
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम्
सर्वमेतद्विधानं च कार्यं पंचदिनेषु हि
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्नरः
पूजयेच्च तृतीयेऽह्नि नाभिं भृङ्गरसेन च
ततोऽनुपूजयेच्छीर्षं मालत्याः कुसुमैर्नवैः
अर्चयित्वा हृषीकेशमेकादश्यां समाहितः
गोमूत्रं मंत्रवत्कृत्वा द्वादश्यां प्राशयेद्व्रती 4.72.
संप्राश्य कायशुद्ध्यर्थं लंघयेत चतुर्दिनम्
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
ततो नक्तं समश्नीयात्पञ्चगव्यपुरःसरम्
सर्वपापहरं पुण्यं प्रख्यातं भीष्मपञ्चकम्
तद्भीष्मपञ्चकं त्यक्त्वा प्राप्नोत्भ्ययधिकं फलम्
यत्प्राप्नोति महत्पुण्यं तत्कृत्वा भीष्मपंचकम्
ब्रह्मलोकमवाप्नोति त्यक्त्वैकं भीष्मपञ्चकम्
यत्फलं कार्त्तिकेनोक्तं भवेत्तद्भीष्मपञ्चके
फलं समीहितं प्राप्य कृत्वाभ्यर्च्य जनार्दनम्
खड्गहस्तातिविकृता सर्वलोकमयी नृप 4.72.