भीष्मपञ्चकव्रतवर्णनम् कर्तव्यं कार्त्तिके मासि प्रयत्नाद्भीष्मपञ्चकम्
विधानं कीदृशं तस्य फलं च यदुसत्तम
यथाविधि च कर्तव्यं फलं चास्य यथोदितम्
मयापि भृगवे प्रोक्तं भृगुश्चोशनसे ददौ
तेजस्विनां यथा वह्निः पवनः शीघ्रगामिनाम्
भूलोकः सर्वलोकानां तीर्थानां जाह्नवी यथा
वेदो यथैव शास्त्राणां देवानामच्युतो यथा
दुष्करं भीष्ममित्याहुर्न शक्यं तदिहोच्यते
वशिष्ठभृगुभर्गाद्यैश्चीर्णं कृतयुगादिषु
सीरभद्रादिभिर्वैश्यैः शूद्रैरन्यैः कलौ युगे 4.72.
ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः
पराधिः परिहर्तव्यो ब्रह्मचर्येण निष्ठया
शाकाहारपरैश्चैव कृष्णार्चनपरैर्नरैः
विधवाभिश्च कर्तव्यं पुत्रपौत्रादिब्रुद्धये
नित्यं स्नानेन दानेन कार्त्तिकी यावदेव तु
नद्य निर्झरगर्ते वा समालभ्य च गोमयम्
देवानृषीन्पितॄंश्चैव ततोन्यान्कामचारिणः
ततोऽनुपूजयेद्देवं सर्वपापहरं हरिम्
तत्रैव पञ्चगव्येन गंधचंदनवारिणा
कर्पूरोशीर मिश्रेण लेपयेद्गरुडध्वजम् 4.72.
गुग्गुलुं घृतसंयुक्तं दहेत्कृष्णाय भक्तितः
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत्
जुहुयाच्च घृताक्तांश्च तिलव्रीहींस्ततो व्रती
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम्
सर्वमेतद्विधानं च कार्यं पंचदिनेषु हि
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्नरः
पूजयेच्च तृतीयेऽह्नि नाभिं भृङ्गरसेन च
ततोऽनुपूजयेच्छीर्षं मालत्याः कुसुमैर्नवैः
अर्चयित्वा हृषीकेशमेकादश्यां समाहितः
गोमूत्रं मंत्रवत्कृत्वा द्वादश्यां प्राशयेद्व्रती 4.72.