कार्तिके शुक्लपक्षस्य द्वादश्यां रजनीमुखे
वेद्यंते रत्नमालाभी रम्ये मालानुरंजिते
वर्द्धमानतरूत्थाभिर्दीपिकाभिर्हुताशनम् 4.71.
पुष्पैरभ्यर्चितं देवं समालब्धं च चन्दनैः
गन्धैः पुष्पैरंलकारैर्वस्त्रै रत्नैश्च पूजितैः
आदित्यं शंकरं गौरीं यक्षं गणपतिं ग्रहान्
गवां नीराजनं कुर्यान्महिष्यादेश्च मंडलम्
ता गावः प्रसुता यांति स्वापीडास्तबकांगदाः
अनुयांति सगोपालाः कालयंतो धनानि ते
एवं कोलाहले वृत्ते गवां नीराजनोत्सवे
राजचिह्नानि सर्वाणि उद्धृत्य स्वगृहांगणे
सिंहासनोपविष्टश्च शंखतूर्यादिनिस्वनैः
ततः स्त्रीलक्षणैर्युक्ता वेश्या वाथ कुलाङ्गना 4.71.
शांतिरस्तु समृद्धिश्च द्विजैश्च स्वजनेन च
एवमेषा महाशांतिः ख्याता नीराजने जने
तेषां रोगाः क्षयं यांति सुभिक्षं वर्द्धते तदा
लोकानावर्द्धयित्वा तु अजपालवरो यथा
वर्षेवर्षे प्रयोक्तव्या शांतिर्नीराजना इति
नीराजयंति नवमेघनिभं हरिं ये गोब्राह्मणान्रथगजांश्च नरेशचिह्नान्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नीराजनद्वादशीव्रतवर्णनं नामैकसप्ततितमोऽध्यायः
भीष्मपञ्चकव्रतवर्णनम् कर्तव्यं कार्त्तिके मासि प्रयत्नाद्भीष्मपञ्चकम्
विधानं कीदृशं तस्य फलं च यदुसत्तम
यथाविधि च कर्तव्यं फलं चास्य यथोदितम्
मयापि भृगवे प्रोक्तं भृगुश्चोशनसे ददौ
तेजस्विनां यथा वह्निः पवनः शीघ्रगामिनाम्
भूलोकः सर्वलोकानां तीर्थानां जाह्नवी यथा
वेदो यथैव शास्त्राणां देवानामच्युतो यथा
दुष्करं भीष्ममित्याहुर्न शक्यं तदिहोच्यते
वशिष्ठभृगुभर्गाद्यैश्चीर्णं कृतयुगादिषु
सीरभद्रादिभिर्वैश्यैः शूद्रैरन्यैः कलौ युगे 4.72.