मेघाश्छादन्ति नृपतिं द्रुमपुष्पादिपंक्तिषु
यामिका मध्यकक्षायां गन्धर्वा गीततत्पराः
गंगाद्याः सरितः पाने गार्हपत्ये हुताशनः 4.71.१
तिष्ठंति पार्थिवाः सर्वे पुरःसेवाविधायिनः
संदृश्य रावणः प्राह प्रशस्तं प्रतिहारकम्
स उवाच प्रणम्याग्रे दंडपाणिर्निशाचरः
ययातिर्नहुषो भीमो राघवोयं विदूरथः
मेघाकारास्तव स्थाने नाजपाल इहागतः
इत्युक्ते प्रहितो दूतो धूम्राक्षो नाम राक्षसः
सेवां कुरु समागच्छ कबन्धो यस्य पार्थिवः
रावणेनैवमुक्तस्तु धूम्राक्षो गरुडो यथा
ददर्श यं तमेकं स अजपालमजावृतम्
यष्टिस्कन्धं रेणुभृतं व्याधिभिः परिवारितम् 4.71.
मह्यामालिख्य नामानि विनिघ्नितं द्विषां गणम्
दृष्ट्वा हृष्टमनाः प्राह धूम्राक्षो रावणोदितम्
प्रेषयामास धूम्राक्षं ततः कृत्यं समादधे
गच्छ लंकाधिपस्थानमाचरस्व यथोचितम्
गत्वा च कंपयामास सगणं राक्षसेश्वरम्
प्रोवाच तिष्ठतु नृपस्तेन मे न प्रयोजनम्
तेनैषा निर्मिता शांतिरजपालेन धीमता
कार्तिके शुक्लपक्षस्य द्वादश्यां रजनीमुखे
वेद्यंते रत्नमालाभी रम्ये मालानुरंजिते
वर्द्धमानतरूत्थाभिर्दीपिकाभिर्हुताशनम् 4.71.
पुष्पैरभ्यर्चितं देवं समालब्धं च चन्दनैः
गन्धैः पुष्पैरंलकारैर्वस्त्रै रत्नैश्च पूजितैः
आदित्यं शंकरं गौरीं यक्षं गणपतिं ग्रहान्
गवां नीराजनं कुर्यान्महिष्यादेश्च मंडलम्
ता गावः प्रसुता यांति स्वापीडास्तबकांगदाः
अनुयांति सगोपालाः कालयंतो धनानि ते
एवं कोलाहले वृत्ते गवां नीराजनोत्सवे