स भवेत्कृतकृत्यस्तु न पुनर्मातृको भवेत्
उत्थानं चापि कृष्णस्य स हरेर्लोकमाप्नुयात् विष्णोर्भक्तिं परां पार्थ स गच्छेद्वैष्णवं पदम्
दुग्धाब्धिभोगशयने भगवाननन्तो यस्मिन्दिने स्वपिति यत्र विबुध्यते वा
नीराजनद्वादशीव्रतवर्णनम् प्रार्थितः स प्रजाभिस्तु सर्वदुःखापनुत्तये
दुःखापनोदं कुरु भो व्याधितानां नरेश्वर
पालयामास हृष्टोऽसावजपालस्ततोऽभवत्
तस्यास्तु पांडवश्रेष्ठ लक्षणं वच्मि ते शृणु
तस्मिन्काले वभूवाथ रावणो राक्षसेश्वरः
अखण्डमण्डलं चन्द्रमातपत्रं चकार ह
वरुणं बद्धकर्मस्थं धनदं धनरक्षकम्
मेघाश्छादन्ति नृपतिं द्रुमपुष्पादिपंक्तिषु
यामिका मध्यकक्षायां गन्धर्वा गीततत्पराः
गंगाद्याः सरितः पाने गार्हपत्ये हुताशनः 4.71.१
तिष्ठंति पार्थिवाः सर्वे पुरःसेवाविधायिनः
संदृश्य रावणः प्राह प्रशस्तं प्रतिहारकम्
स उवाच प्रणम्याग्रे दंडपाणिर्निशाचरः
ययातिर्नहुषो भीमो राघवोयं विदूरथः
मेघाकारास्तव स्थाने नाजपाल इहागतः
इत्युक्ते प्रहितो दूतो धूम्राक्षो नाम राक्षसः
सेवां कुरु समागच्छ कबन्धो यस्य पार्थिवः
रावणेनैवमुक्तस्तु धूम्राक्षो गरुडो यथा
ददर्श यं तमेकं स अजपालमजावृतम्
यष्टिस्कन्धं रेणुभृतं व्याधिभिः परिवारितम् 4.71.
मह्यामालिख्य नामानि विनिघ्नितं द्विषां गणम्
दृष्ट्वा हृष्टमनाः प्राह धूम्राक्षो रावणोदितम्
प्रेषयामास धूम्राक्षं ततः कृत्यं समादधे
गच्छ लंकाधिपस्थानमाचरस्व यथोचितम्
गत्वा च कंपयामास सगणं राक्षसेश्वरम्
प्रोवाच तिष्ठतु नृपस्तेन मे न प्रयोजनम्
तेनैषा निर्मिता शांतिरजपालेन धीमता