मुकटेन शिरो रुद्धं कुंडलाभ्यां च कर्णकौ
चतुरो वार्षिकान्मासान्माऽऽश्रिता सा भविष्यति
चकार लोचनावासमतोऽर्थं मे युधिष्ठिर
योगनिद्रा महानिद्रा शेषाभिशयने स्थितः
लक्ष्मीकरांबुजैरच्छैर्मृद्यमानपदद्वयः
व्रतैरनेकैनियमैः पांडवश्रेष्ठ मानवः
ततोऽवबुध्यते देवः श्रीमाञ्छङ्खगदाधरः 4.70.
मन्त्रेणानेन राजेन्द्र देवमुत्थापयेद्द्विजः
समुत्थिते तदा विष्णो क्रियाः सर्वाः प्रवर्तयेत्
उत्थिते देवदेवेशे नगरे पार्थिवः स्वयम्
यंयं दामोदरः पश्येदुत्थितो धरणीधरः
रात्रौ प्रजागरे देवमेकादश्यां सुरालये
होमयेद्धव्यवाहं च हव्यद्रव्यैर्घृतादिभिः
घृतदधिक्षौद्रकाद्यैर्गुडधूपैः समोदकैः
एकादश दशाष्टौ वा पंच द्वौ वा कुरूत्तम
श्रद्धोक्तविधिना पार्थ भोजयेद्भाग्यवान्यतीन्
स्ववाचा स्वमनोभीष्टपत्रपुष्पफलादिकम् 4.70.
कथयित्वा द्विजेभ्यस्तं दद्याद्भक्त्या सदक्षिणाम्
यत्त्यक्तं चतुरो मासान्प्रवृत्तिन्तस्य चाचरेत्
अवसाने तु राजेन्द्र वासुदेवपुरीं व्रजेत्
स भवेत्कृतकृत्यस्तु न पुनर्मातृको भवेत्
उत्थानं चापि कृष्णस्य स हरेर्लोकमाप्नुयात् विष्णोर्भक्तिं परां पार्थ स गच्छेद्वैष्णवं पदम्
दुग्धाब्धिभोगशयने भगवाननन्तो यस्मिन्दिने स्वपिति यत्र विबुध्यते वा
नीराजनद्वादशीव्रतवर्णनम् प्रार्थितः स प्रजाभिस्तु सर्वदुःखापनुत्तये
दुःखापनोदं कुरु भो व्याधितानां नरेश्वर
पालयामास हृष्टोऽसावजपालस्ततोऽभवत्
तस्यास्तु पांडवश्रेष्ठ लक्षणं वच्मि ते शृणु
तस्मिन्काले वभूवाथ रावणो राक्षसेश्वरः
अखण्डमण्डलं चन्द्रमातपत्रं चकार ह
वरुणं बद्धकर्मस्थं धनदं धनरक्षकम्