एवमादिपरित्यागाद्धर्मः स्याद्धर्मनन्दन
धारणं नखरोमाणां गंगास्नानं दिनेदिने
भूमौ भुंक्ते सदा यस्तु स पृथिव्याः पतिर्भवेत्
पादाभिवंदनाद्विष्णोर्लभेद्गोदानजं फलम्
विष्णुदेवकुले कुर्यादुपलेपनमर्चनम्
प्रदक्षिणाशतं यस्तु करोति स्तुतिपाठकः
गीतवाद्यकरो विष्णोर्गांधर्वं लोकमाप्नुयात् 4.70.
स व्यासरूपी भगवानंते विष्णुपुरं व्रजेत्
नित्यस्नायी नरो यस्तु नरकं स न पश्यति
कृत्वा प्रेक्षणकं दिव्यं राज्यं सोऽप्सरसां लभेत्
षष्ठकालेन्नभोज्येन स्थायी स्वर्गे नरो भवेत्
शिलायां भोजनान्नित्यं स्नानं प्रयागजं भवेत्
एवमादिव्रते पार्थ तुष्टिमायाति हेतुतः
निवर्तते क्रियाः सर्वाश्चातुर्वण्यस्य भारत
यज्ञाश्च गृहवेशादि गोदानाच्च प्रतिष्ठितम्
असंक्रांतं तु मासं वै दैवे पित्र्ये च वर्जयेत्
प्राप्ते भाद्रपदे मासि एकादश्यां दिने हरेः 4.70.
य एतदेव शयनं तत्रेदं कारणं शृणु
ममापि मानयत्यङ्गं प्रार्थितो योगनिद्रया
शंखचक्रासिमार्गाद्यैर्बाहवोप्यथ वक्षसा
मुकटेन शिरो रुद्धं कुंडलाभ्यां च कर्णकौ
चतुरो वार्षिकान्मासान्माऽऽश्रिता सा भविष्यति
चकार लोचनावासमतोऽर्थं मे युधिष्ठिर
योगनिद्रा महानिद्रा शेषाभिशयने स्थितः
लक्ष्मीकरांबुजैरच्छैर्मृद्यमानपदद्वयः
व्रतैरनेकैनियमैः पांडवश्रेष्ठ मानवः
ततोऽवबुध्यते देवः श्रीमाञ्छङ्खगदाधरः 4.70.
मन्त्रेणानेन राजेन्द्र देवमुत्थापयेद्द्विजः
समुत्थिते तदा विष्णो क्रियाः सर्वाः प्रवर्तयेत्
उत्थिते देवदेवेशे नगरे पार्थिवः स्वयम्