तुलाराशिगते तस्मिन्पुनरुत्थापयेद्व्रतम्
अधिमासे च पतिते एष एव विधिक्रमः
आषाढस्य सिते पक्षे एकादश्यामुपोषितः
पीतांबरधरं सौम्यं पर्यंके स्वास्तृते शुभे
इतिहासपुराणज्ञो विष्णुभक्तोपि यः पुमान्
समालभ्य शुभैर्गंधैर्धूपैर्व स्त्रैरलंकृतम्
सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् 4.70.
एवं तां प्रतिमां विष्णोः स्थापयित्वा युधिष्ठिर
चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि
गृह्णीयान्नियमानेतान्दंतधावनपूर्वकम्
मधुरस्वरो भवेद्राजा पुरुषो गुडवर्जनात्
कटुतैलपरित्यागाच्छत्रुक्षयमवाप्नुयात्
पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत्
कटुकाम्लतिक्तमधुरक्षारकाषायमेव च
तांबूलवर्जनाद्भोगी रक्तकण्ठश्च जायते
फलत्यागाच्च मतिमान्बहुपुत्रश्च जायते
पादाभ्यंगपरित्यागाच्छिरोभ्यंगाच्च पार्थिव 4.70.
दधिदुग्ध तक्रनियमाद्गोलोकं लभते नरः
लभेत संततिं दीर्घां तापपक्वस्य भक्षणात्
सदा मुनिः सदा योगी मधुमांसस्य वर्जनात्
एवमादिपरित्यागाद्धर्मः स्याद्धर्मनन्दन
धारणं नखरोमाणां गंगास्नानं दिनेदिने
भूमौ भुंक्ते सदा यस्तु स पृथिव्याः पतिर्भवेत्
पादाभिवंदनाद्विष्णोर्लभेद्गोदानजं फलम्
विष्णुदेवकुले कुर्यादुपलेपनमर्चनम्
प्रदक्षिणाशतं यस्तु करोति स्तुतिपाठकः
गीतवाद्यकरो विष्णोर्गांधर्वं लोकमाप्नुयात् 4.70.
स व्यासरूपी भगवानंते विष्णुपुरं व्रजेत्
नित्यस्नायी नरो यस्तु नरकं स न पश्यति
कृत्वा प्रेक्षणकं दिव्यं राज्यं सोऽप्सरसां लभेत्