कार्त्तिके चैव द्वादश्यां यथा चानुष्ठितं पुरा
वत्सो मे वत्सवेलायां मृतोऽर्थं लभते पुनः
यथार्थमेतद्व्याख्यातं ते च गोद्वादशीव्रतम्
एवमुक्तं व्रतं चीर्णं रुच्या पुत्राः सुखं धनम्
ब्रह्मणा सृष्टिकारेण रुचिर्भर्त्रा सहासिता धुवर्क्षे च यदा दृष्टे लोकः पापैः प्रमुच्यते
यत्कृतं शुघ्निवचनाद्रुच्या यदुकुलोद्भव
संप्राप्ते कार्तिके मासि शुक्लपक्षे कुरूत्तम नरो वा यदि वा नारी एकभक्तं प्रकल्पयेत् ।।4.69.
ततो मध्याह्नसमये दृष्ट्वा धेनुं सवत्सिकाम्
ब्राह्मणक्षत्रियविशां शूद्राणां स्त्रीजनेश्वर
कुंकुमालक्तकैर्दीपैर्माषान्नवटकैः शुभैः
ॐ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः
इत्थं संपूज्य गां पृष्ट्वा पश्चात्तां च क्षमापयेत् मातर्ममाभिलषितं सफलं कुरु नंदिनि
एवमभ्यर्चयेदेकां गामेतद्धि गवाह्निकम्
तद्दिने तापिकापक्वं स्थालीपाकं च वर्जयेत्
यावंति गात्रे रोमाणि गवां कौरवनंदन
मेरोः पुर्यष्टकं रम्यमिंद्राग्नियमरक्षसाम् तासामुपरि गोलोकस्तत्र याति स गोव्रती
ऊर्जे सिते द्विदशमेऽहनि गां सवत्सां याः पूजयंति कुसुमैर्वटकैश्च हृद्यैः 4.69.
देवशयनोत्थापनद्वादशीव्रतवर्णनम् कटदानं समुत्थानं चातुर्मास्यव्रतक्रमम्
देवः किमर्थं स्वपिति किं विधानं सदा वद
के मंत्राः के च नियमा व्रतान्यथ क्रिया च का
तुलाराशिगते तस्मिन्पुनरुत्थापयेद्व्रतम्
अधिमासे च पतिते एष एव विधिक्रमः
आषाढस्य सिते पक्षे एकादश्यामुपोषितः
पीतांबरधरं सौम्यं पर्यंके स्वास्तृते शुभे
इतिहासपुराणज्ञो विष्णुभक्तोपि यः पुमान्
समालभ्य शुभैर्गंधैर्धूपैर्व स्त्रैरलंकृतम्
सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् 4.70.
एवं तां प्रतिमां विष्णोः स्थापयित्वा युधिष्ठिर
चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि
गृह्णीयान्नियमानेतान्दंतधावनपूर्वकम्