रुची रसवतीं नित्यं प्रत्यहं कुरुते गृहे
कदाचित्क्रोधमात्सर्यात्सापत्न्यं दर्शितं तया
तापिकायां तथा स्थाल्यां पक्वसिद्धः सुसं स्कृतः
तं वै भक्षयितुं दुष्टा सामिषं भोजनं किल
तथैव प्रहसन्बालो मातुरुत्संगजोऽभवत्
किमेतद्ब्रूहि वृत्तांतं कस्येयं व्युष्टिरुत्तमा
सत्यंसत्यं पुनः सत्यं येन जीवति ते सुतः 4.69.
पक्वः स्वयं कृतः स्थाल्यां व्यञ्जनैः सह भोजनैः
किं ते सिद्धा महाविद्या मृतसञ्जीवनी शुभा
कथयस्व महाभागे सत्यंसत्यं भगिन्यसि
कार्त्तिके चैव द्वादश्यां यथा चानुष्ठितं पुरा
वत्सो मे वत्सवेलायां मृतोऽर्थं लभते पुनः
यथार्थमेतद्व्याख्यातं ते च गोद्वादशीव्रतम्
एवमुक्तं व्रतं चीर्णं रुच्या पुत्राः सुखं धनम्
ब्रह्मणा सृष्टिकारेण रुचिर्भर्त्रा सहासिता धुवर्क्षे च यदा दृष्टे लोकः पापैः प्रमुच्यते
यत्कृतं शुघ्निवचनाद्रुच्या यदुकुलोद्भव
संप्राप्ते कार्तिके मासि शुक्लपक्षे कुरूत्तम नरो वा यदि वा नारी एकभक्तं प्रकल्पयेत् ।।4.69.
ततो मध्याह्नसमये दृष्ट्वा धेनुं सवत्सिकाम्
ब्राह्मणक्षत्रियविशां शूद्राणां स्त्रीजनेश्वर
कुंकुमालक्तकैर्दीपैर्माषान्नवटकैः शुभैः
ॐ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः
इत्थं संपूज्य गां पृष्ट्वा पश्चात्तां च क्षमापयेत् मातर्ममाभिलषितं सफलं कुरु नंदिनि
एवमभ्यर्चयेदेकां गामेतद्धि गवाह्निकम्
तद्दिने तापिकापक्वं स्थालीपाकं च वर्जयेत्
यावंति गात्रे रोमाणि गवां कौरवनंदन
मेरोः पुर्यष्टकं रम्यमिंद्राग्नियमरक्षसाम् तासामुपरि गोलोकस्तत्र याति स गोव्रती
ऊर्जे सिते द्विदशमेऽहनि गां सवत्सां याः पूजयंति कुसुमैर्वटकैश्च हृद्यैः 4.69.
देवशयनोत्थापनद्वादशीव्रतवर्णनम् कटदानं समुत्थानं चातुर्मास्यव्रतक्रमम्
देवः किमर्थं स्वपिति किं विधानं सदा वद
के मंत्राः के च नियमा व्रतान्यथ क्रिया च का