त्रयस्त्रिंशद्देवकोट्यो रोमकूपे व्यवस्थिताः
चत्वारः सागराः प्रोक्ता गवां ये तु पयोधराः
जठरे गार्हपत्योऽग्निर्दक्षिणाग्निर्हृदिस्थितः
अस्थिव्यवस्थिताः शैला मज्जासु क्रतवः स्थिताः
सुरक्तपीतकृष्णादौ गवां वर्णे व्यवस्थिताः
संस्मृत्य तत्क्षणाद्गौरी इयेष सदृशीं तनुम्
षडुन्नतां पञ्चनिम्नां मंडूकाक्षीं सुवालधिम् 4.69.
सुशीलां च सुतस्नेहां सुक्षीरां सुपयोधराम्
चर्यया प्रतरन्हृष्टो महादेवः स्वचेतसि
दत्त्वा कुलपतेः पार्श्वं भृगोस्तां गां न्यवेदयत्
न्यासरूपां ददौ धेनुं रक्षित्वा तां दिनद्वयम्
अन्तर्द्धिमगमद्देवः पुनर्व्याघ्रो बभूव ह
वज्रचक्रनखो देवीं ज्वलत्पिंगललोचनः
संप्रायादाश्रमपदं तां च धेनुं सवत्सिकाम्
हाहेत्युच्चैः केचिदूचुर्हुंहुंकारैस्तथापरे
तालास्फोटान्ददुः केचिद्व्याघ्रं दृष्ट्वातिभैरवम्
तस्या व्याघ्रभयार्तायाः कपिलाया युधिष्ठिर 4.69.
व्याघ्रवत्सकयोस्तत्र वंदितं सुरकिन्नरैः
सजलं शिवलिंगं च शम्भोस्तीर्थं तदुत्तमम्
तत्र स्नात्वा महातीर्थे जंबूमार्गे नराधिप
ततस्ते मुनयः क्रुद्धा ब्रह्मदत्तां महास्वनाम्
शब्देन तेन व्याघ्रोऽपि मुक्त्वा गावं सव त्सिकाम् तं प्रपश्यंति ये पार्थ ते रुद्रा नात्र संशयः
अथ प्रत्यक्षतां श्रेष्ठस्तेषां देवो महेश्वरः
उमासहायो वरदः सस्वामी सविनायकः
वीरभद्रा च चामुंडा घंटाकर्णादिभिर्वृता देवदानवगन्धर्वमुनिविद्याधरोरगैः
प्रणम्य देवदेवाय पत्नीभिः सहितैरुमा
कार्तिके शुक्लपक्षे तु द्वादश्यां नंदिनीव्रतम् 4.69.
उत्तानपादेन तथा व्रतं चीर्णमिदं शृणु
तस्य भार्या द्वयं चासीद्रुचिशुघ्नीति विश्रुतम्
रुच्याः समर्पितः शुघ्न्या ध्रुवोऽयं रक्ष्यतां सखि