तपस्यता तत्र तेषां मुनीनां दर्शनार्थिनाम्
बभूव ब्राह्मणो वृद्धो जरापांडुरमूर्द्धजः उमापि चक्रे गोरूपं शृणु तत्पार्थ यादृशम्
क्षीरोदतोयसंभूता याः पुरामृतमंथने
नन्दा सुभद्रा सुरभी सुशीला बहुला इति
जमदग्निभारद्वाजवशिष्ठासितगौतमाः
गोमयं रोचना मूत्रं क्षीरं दधि घृतं गवाम्
गोमयादुत्थितः श्रीमान्बिल्ववृक्षः शिवप्रियः बीजान्युत्पलपद्मानां पुनर्जातानि गोमयात् ।। 4.69.
गोरोचना च मांगल्या पवित्रा सर्वसाधिका आहारः सर्वदेवानां शिवस्य च विशेषतः
यद्बीजं जगतः किञ्चित्तज्ज्ञेयं क्षीरसंभवम् घृतादमृतमुत्पन्नं देवानां तृप्तिकारणम्
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम्
गोषु यज्ञाः प्रवर्तंते गोषु देवाः प्रतिष्ठिताः
शृङ्गमूले गवां नित्यं ब्रह्मा विष्णुश्च संस्थितौ
शिवो मध्ये महादेवः सर्वकारणकारणम्
कंबलाश्वतरौ नागौ नासापुटसमाश्रितौ
दंतेषु वसवः सर्वे जिह्वायां वरुणः स्थितः
संध्याद्वयं तथेष्टाभ्यां ग्रीवायां च पुरंदरः
चतुष्पात्सकलो धर्मो नित्यं जंघासु तिष्ठति 4.69.
खुराणां पश्चिमे भागे राक्षसाः संप्रतिष्ठिताः
श्रोणीतटस्थाः पितरः कपोलेषु च मानवाः
आदित्या रश्मयो वालाः पिण्डीभूता व्यवस्थिताः
त्रयस्त्रिंशद्देवकोट्यो रोमकूपे व्यवस्थिताः
चत्वारः सागराः प्रोक्ता गवां ये तु पयोधराः
जठरे गार्हपत्योऽग्निर्दक्षिणाग्निर्हृदिस्थितः
अस्थिव्यवस्थिताः शैला मज्जासु क्रतवः स्थिताः
सुरक्तपीतकृष्णादौ गवां वर्णे व्यवस्थिताः
संस्मृत्य तत्क्षणाद्गौरी इयेष सदृशीं तनुम्
षडुन्नतां पञ्चनिम्नां मंडूकाक्षीं सुवालधिम् 4.69.
सुशीलां च सुतस्नेहां सुक्षीरां सुपयोधराम्
चर्यया प्रतरन्हृष्टो महादेवः स्वचेतसि
दत्त्वा कुलपतेः पार्श्वं भृगोस्तां गां न्यवेदयत्