विषयिन्मांसमदिरे नित्यपापविवर्धिके
तस्मात्त्वं प्रभुमीशानं विष्णुं जिष्णुं जगत्पतिम् 3.2.21.
नास्तिकत्वं देवनिंदा परित्यज्य मतिं कुरु
आत्मनोंगानि देवाश्च सर्वजीवगुहाशयाः
इति ते वचनं श्रुत्वा गतास्तीर्थान्तरं प्रति
वर्षांते च महादेवो विद्यां संजीवनीं ददौ
मृतव्याघ्रास्थिनि श्रेष्ठं मंत्रपूतांबु चाक्षिपत्
तस्योपर्य्येव कुलटो मंत्रपूतं पयोऽक्षिपत्
विषयी चाक्षिपच्चैव तस्योपरि जलं शुभम्
सुप्तं व्याघ्रं च संज्ञाय नास्तिकस्तु जलं ददौ
सूत उवाच राजन्मूर्खो हि कस्तेषां श्रुत्वा राजाब्रवीदिदम्
बोधितो येन स व्याघ्रः स मूर्खस्त्वधिको मतः 3.2.21.
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहा ससमुच्चय एकविंशोऽध्यायः
अहं पूर्वभवे चासं क्षत्रसिंहो महीपतिः
तस्य ग्रामे वसद्विप्रो वेदवेदांगपारगः
उभकौ तनयौ तस्य सर्वविद्याविशारदौ शाक्तोऽभवत्तदनुजो मोहनो नाम श्रुतः
कदाचित्क्षत्रसिंहस्तु यज्ञार्थी यज्ञहेतवे स्वयं च कारयामास च्छागमेधं सुरप्रियम्
शंभुदत्तस्तु वृद्धात्मा शिवभक्तिपरायणः
हव्यैः सुसंस्कृतै रम्यैश्चकार हवनं मुदा
लीलाधरस्तु तं दृष्ट्वा छागं च मरणोन्मुखम्
दारुणं नरकं योग्यमनया जीवहिंसया
इति श्रुत्वा वचस्तस्य ज्येष्ठबंधोश्च मोहनः
पुरा सत्ययुगे भ्रातर्ब्राह्मणा यज्ञतत्पराः 3.2.22.१
तिलाधिकमजं मत्वा हव्ये ते तु मनो दधुः
ऊचुस्ते मधुरं वाक्यं त्वन्मतं निष्फलप्रदम्
एतस्मिन्नंतरे तत्र पितृयोनिरमावसुः
विमानं परमारुह्य मुनीन्प्रोवाच निर्भयः
इति श्रुत्वा वचस्तस्य तथा कृत्वा शिवं ययुः
इति श्रुत्वा वचो घोरं लीलाधर उदारधीः
रजोगुणमयो लोकस्त्रेतायां संबभूव ह