श्रीधरः पुंडरीकाक्षो विश्वरूपस्त्रिविक्रमः 4.68.
वासुदेवो हृषीकेशः कृष्णः सकर्षणोऽच्युतः
नित्यं स मे शुभः प्रीतः सश्रीकः केशशूलिनः
ईशानो भैरवः शूली त्र्यंबकस्त्रिपुरांतकः
शिवः शर्वो महादेवो रुद्रो भूतमहेश्वरः
ब्रह्मा शंभुः प्रभुः स्रष्टा पुष्करी प्रपितामहः
चतुर्मुखः सृष्टिकर्ता स्वयंभूः कमलासनः
आदित्यो भास्करो भानुः सूर्योर्कः सविता रविः
प्रभाकरः सप्तसप्तिस्तरणिः सरणिः खगः
निकुंभोः वर्णभो देवः सुप्रीतोऽस्तु सदा मम
लक्ष्मीः श्रीः संपदा पद्मा मा विभूतिर्हरिप्रिया 4.68.
गायत्री प्रकृतिः सृष्टिः सावित्री वेधसो मता ।। राज्ञी भानुमती संज्ञा नित्यभा भास्करप्रिया
इति पद्मनाभशंकरपितामहार्क्कादीन्सप्रियान्पूज्य
द्वादश्यां चरति नरो व्रतमेतद्भक्तिभावितो लोके
हरिहरहिरण्यगर्भप्रभाकराणां क्रमेण लोकेषु
स्त्रीपुंसोर्यदि युग्मं पुरुषो वा यदि समाचरति कश्चित्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हरिहरहिरण्यगर्भप्रभाकराणामवियोगव्रतं नामाष्टषष्टितमोऽध्यायः
गोवत्सद्वादशीव्रतवर्णनम् तेन पापेन मे चित्ते जुगुप्सातीव वर्तते
तत्र ब्राह्मणराजन्यवैश्यशूद्रादयो हताः
तेषां वधेन यत्पापं तन्मे मर्माणि कृंतति
अस्ति पार्थ महाबाहो पांडवानां धुरंधर
युधिष्ठिर उवाच केयं गोद्वादशी नाम विधानं तत्र कीदृशम्
एतत्सर्वं हरे ब्रूहि पाहि मां नरकार्णवात्
श्रीकृष्ण उवाच तपश्चचार विपुलं नामव्रतधरा गिरौ
हर्षेण महताविष्टा दैवदर्शनकांक्षया
पारियात्रे सिद्धपात्रे रम्ये तंदुलिकाश्रमे
तापसारण्यमतुलं दिव्यकाननमंडितम् 4.69.
वल्कलाजिनसंवीतेर्भृगोराश्रममंडलम्
प्रशांतसिंहहरिणं सर्ववस्तुगतद्रुमम्
सिंहव्याघ्रगजैर्भिन्नं हरिणैः शबरैः शशैः