गरुडासनाः साभरणा मुकुटोत्कट कुंडलाः
लक्ष्मीधरा मेघवर्णाः कूर्पराङ्गदभूषणाः
तस्मादेत्य महातेजाः पृथिव्यां नृपपूजिताः
ततो यांति परं स्थानं मोक्षमार्गं शिवं शुभम्
ये द्वादशीमुपवसंति सितामरण्यनाम्नीं वने द्विजवरानथ भोजयंति
रोहिणीचन्द्रव्रतवर्णनम् मयूरकेकाकुलिते दर्दुरारावपूरिते
कुलस्त्रियः प्रयच्छंति कस्यान्नं काऽत्र देवता
एकादश्यां शुचिर्भूत्वा सर्वौषधिजलैः शुभैः
माषचूर्णेन राजेन्द्र कुर्यादिंदुरिकाशनम्
नरमेकैकमुद्दिश्य ततो गत्वा जलाशयम्
तस्यैव पुलिने रम्ये जुष्टान्ने गोमयादिना
चर्चितं गंधकुसुमैर्धूप दीपाक्षतोज्ज्वलम् अर्चयेच्च सभार्यो वै मन्त्रेणानेन भावितः
सोमराज नमस्तुभ्यं रोहिण्यै ते नमोनमः
एवं संपूज्य तस्याग्रे नैवेद्यं देयमर्चितम् प्रीयतामिति मे देवी रोहिणी सहितप्रिया
एवमुच्चार्य दत्त्वा च ततोंऽतर्जलमाविशेत् 4.67.
ध्यायेच्च मनसा सोमं रोहिणीसहितं तदा
नियम्य वसतां चान्ये ततो विप्राय भोजनम् भक्त्या शक्त्या यथाचित्तं यथावित्तं तथा तथा
यः करोति नरो राजन्नारी वाथ कुमारिका
इह लोके चिरं स्थित्वा धनधान्यसमाकुले
ततः सुतीर्थे मरणं ततो ब्रह्मपुरं व्रजेत्
खे रोहिणी शशधराभिमता हिता च किं कारणं शृणु नरेन्द्र निवेदयामि
अवियोगव्रतवर्णनम् विधानं तस्य कीदृक्च किं पुण्यं काऽत्र देवता
अवियोगव्रतं नाम व्रतानामुत्तमोत्तमम्
प्रौष्ठपदे शुक्लपक्षे द्वादश्यां प्रातरुत्थितः
हृद्ये रम्ये सौधतटे हरिं लिख्येत मण्डले
तत्रैव च हरं गौरीं सावित्रीं ब्रह्मणा सह
गंधैः पुष्पैश्च धूपैर्नैवेद्यैरर्चयेद्यथाशक्त्या
नारी वा पुरुषो वा अवियोगमतिं दृढां कृत्वा
सहस्रमूर्द्धा पुरुषः पद्मनाभो जनार्दनः
नारायणो मधुलिहो विष्णुर्दामोहरो हरिः