लोपामु्द्रालये साध्व्यो मुनिपत्न्यो बहुप्रजाः
पद्मिनीपत्रविस्तीर्णे सोपदंशै र्यथा नवैः
तामिहैकमनाः पार्थः शृणुष्वारण्यद्वादशीम्
स्नात्वा नरः सोपवासः कृत्वा पूजां जनार्दने
नीत्वा प्रभाते गत्वा च वने वेदाङ्गपारगान्
पञ्चगव्यं प्राशयित्वा पूर्वमेवाथ तद्दिने
श्रावणे कार्त्तिके माघे चैत्रे वाथ समर्चिते
अपूपैः खण्डवेष्टैश्च मरीचैः सिंहकेसरैः 4.66.
शीतलैस्तर्पयेद्विद्वानर्कपुष्पैः सुमालकैः
कर्पूरनख विद्धैश्च मधुरैः पनसोत्तमैः
सुखासनोपविष्टांश्च प्रागुदङ्मुखवच्छुचीन्
एकदंडीस्त्रिदंडीश्च गृहस्थांश्चापि सुव्रतान्
चार्वंग्यश्चार्चिताः स्नाताः सर्वावयमशोभनाः
अंगैर्वा भोजनीयास्तास्ताश्चादित्यस्य देवताः
पद्मनाभकृष्णविष्णुगोवर्द्धनत्रिविक्रमाः
एभिर्द्वादशभिर्मन्त्रैर्नमस्कारांतयोजितैः
भोजयित्वा शुभान्नानि दद्यात्ताभ्यः सुदक्षिणाम्
ततो भुञ्जीत सहितो भृत्यैः प्रेष्यजनेन च ।। 4.66.
एवं कौंतेय कुरुते योऽरण्यद्वादशीं नरः याति ज्ञातिसमायुक्तः श्वेतद्वीपं हरेः पुरम्
यत्र लोकाः पीतवस्त्राः श्यामदेहाश्चतुर्भुजाः
गरुडासनाः साभरणा मुकुटोत्कट कुंडलाः
लक्ष्मीधरा मेघवर्णाः कूर्पराङ्गदभूषणाः
तस्मादेत्य महातेजाः पृथिव्यां नृपपूजिताः
ततो यांति परं स्थानं मोक्षमार्गं शिवं शुभम्
ये द्वादशीमुपवसंति सितामरण्यनाम्नीं वने द्विजवरानथ भोजयंति
रोहिणीचन्द्रव्रतवर्णनम् मयूरकेकाकुलिते दर्दुरारावपूरिते
कुलस्त्रियः प्रयच्छंति कस्यान्नं काऽत्र देवता
एकादश्यां शुचिर्भूत्वा सर्वौषधिजलैः शुभैः
माषचूर्णेन राजेन्द्र कुर्यादिंदुरिकाशनम्
नरमेकैकमुद्दिश्य ततो गत्वा जलाशयम्