द्वादशे स पुनर्जातः पुष्कलक्लेशभाजनः
तेन चासीत्कृतं पूर्वं तारकद्वादशीव्रतम्
अवाप शीघ्रं पंचत्वं संसारभवसागरे
भूयश्चोपोषिता तेन तारकद्वादशी शुभा
व्रतप्रभावाद्भुवने भुक्त्वा राज्यमकण्टकम्
स्त्रीभिर्वा भर्तृवाक्येन स्नानदानजपादिकम्
अकृत्रिमे जले स्नानमपराह्णे समाचरेत्
प्रणम्य भास्करायाथ कृत्वा देवार्चनं तथा 4.65.
ततो भुक्त्वा फलैः पुष्पैर्गन्धधूप विलेपनैः
रम्ये ताम्रमये पात्रे जानुभ्यां धरणीं गतः
भूमौ तु मंडलं कृत्वा गोमयेन सतारकम्
सहस्रशीर्षामंत्रेण भूमौ शक्त्या शनैः स्वयम्
पर्युक्ष्य धूममुत्क्षिप्य दद्याद्विप्राय दक्षिणाम्
मार्गशीर्षे खंडखाद्यं पौषे सोहालकं तथा
मोदकांश्चैत्रमासे तु वैशाखे खंडवेष्टकम्
श्रावणे मधुशीर्षेण नभस्ये पायसेन च
एभिर्द्वादशभिर्वर्षैर्भोजयित्वा द्विजान्स्वयम्
समाप्ते तु व्रते कृत्वा राजतं तारकागणम् 4.65.
कुम्भा द्वादश दातव्याः सोदका मोदकाश्रिताः
ब्राह्मणे वल्गुलल्लाटं लक्षपुष्पोपशोभितम्
अनेन विधिना राजन्यः करोति व्रतं नरः
नक्षत्रलोकं व्रजति विमानेनार्कवर्चसा
सहस्रभर्त्ता स्वर्लोके पूज्यमानो दिवाकरैः
एतद्व्रतं पुरा चीर्णं शच्या राज्ञ्या श्रियोमया
मेनया रंभया स्वर्गे उर्वश्या देवदत्तया
चीर्णमेतद्व्रतं पार्थ सर्वपापभयापहम्
जन्मांतरेष्वपि कृतानि हरत्यघानि या संदहत्यहरहः सुकृतोपयोगात्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तारकद्वादशीव्रतं नाम पञ्चषष्ठितमोऽध्यायः
अरण्यद्वादशीव्रतवर्णनम् सप्राशनं सोपवासं सरहस्यं समन्त्रकम्
व्रतं राघववाक्येन प्रशस्तं दोषवर्जितम्