स्त्रियं जघान तरुणीं स्नातुकामामथागताम्
तत्रापि बडिशं दत्त्वा जनैः प्राणैर्वियोजितः
क्रूरश्छिद्रपरः क्षुद्रो नरप्राणवियोजकः
मंत्रेणाहूय सिद्धेन वातिकेन व्यसुः कृतः
क्रूरदंष्द्रः करालास्यो मांसशोणितभोजनः
स राष्ट्रं जर्जरं शून्यं सर्वं चक्रे विषादिषु
समारोप्य धनुः संख्ये ब्रह्मास्त्रेण निपातितः
वनेचराणां क्रुद्धाङ्गो ब्राह्मणान्निधनं गतः 4.65.
एकादशेऽपि पाञ्चालो भवमध्येऽपि भीषणः
पापो धर्मध्वजो रक्षो देवतोज्झितमाल्यधृक
द्वादशे स पुनर्जातः पुष्कलक्लेशभाजनः
तेन चासीत्कृतं पूर्वं तारकद्वादशीव्रतम्
अवाप शीघ्रं पंचत्वं संसारभवसागरे
भूयश्चोपोषिता तेन तारकद्वादशी शुभा
व्रतप्रभावाद्भुवने भुक्त्वा राज्यमकण्टकम्
स्त्रीभिर्वा भर्तृवाक्येन स्नानदानजपादिकम्
अकृत्रिमे जले स्नानमपराह्णे समाचरेत्
प्रणम्य भास्करायाथ कृत्वा देवार्चनं तथा 4.65.
ततो भुक्त्वा फलैः पुष्पैर्गन्धधूप विलेपनैः
रम्ये ताम्रमये पात्रे जानुभ्यां धरणीं गतः
भूमौ तु मंडलं कृत्वा गोमयेन सतारकम्
सहस्रशीर्षामंत्रेण भूमौ शक्त्या शनैः स्वयम्
पर्युक्ष्य धूममुत्क्षिप्य दद्याद्विप्राय दक्षिणाम्
मार्गशीर्षे खंडखाद्यं पौषे सोहालकं तथा
मोदकांश्चैत्रमासे तु वैशाखे खंडवेष्टकम्
श्रावणे मधुशीर्षेण नभस्ये पायसेन च
एभिर्द्वादशभिर्वर्षैर्भोजयित्वा द्विजान्स्वयम्
समाप्ते तु व्रते कृत्वा राजतं तारकागणम् 4.65.
कुम्भा द्वादश दातव्याः सोदका मोदकाश्रिताः
ब्राह्मणे वल्गुलल्लाटं लक्षपुष्पोपशोभितम्