अग्नेः परिग्रहादार्ये त्वमाग्नेयीति पठ्यसे 4.64.
देवराजं समासाद्य लोकः संयमयत्यसौ
खड्गंसहातिविकृता नैर्ऋतिस्त्वमुपाभृता
त्वय्यास्ते भवनाधारवरुणो यादसां पतिः
अधिश्रितासि यस्मात्त्वं वायुना जगदायुना
कुबेरवासतः सौम्या प्रख्याता त्वमथोत्तरा अतस्त्वं शिवसान्निध्यं देवि देहि शिवे नमः
सर्पाष्टककुलेन त्वं सेवितासि तथाप्यधः
सप्तलोकैः परिगता सर्वदा त्वं शिवा यतः
नक्षत्राणि च सर्वाणि ग्रहास्ताराग्रहास्तथा सर्वे ममेष्टसिद्ध्यर्थे भवंतु प्रणताः सदा
एभिर्मंत्रैः समभ्यर्च्य पुष्पधूपादिना ततः
तत्तूर्यध्वनिघोषेण गतिमङ्गलनिःस्वनैः 4.64.
कुंकुमक्षोदतीव्रेण दानमानादिभिः सुखम्
अनेन विधिना सर्वं क्षमयन्प्रणिपत्य च
य एवं कुरुते पार्थ दशमीव्रतमादरात्
स्त्रीभिर्विशेषतः कार्यं व्रतमेतद्युधिष्ठिर
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्
ये मानवा मनुजपुङ्गव कामकामाः संपूजयंति दशमीषु सदा दशाशाः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आशादशमीव्रतं नाम चतुष्पष्टितमोऽध्यायः
तारकद्वादशीव्रतवर्णनम् परिपृच्छामि गोविन्द त्वां नमस्कृत्य पादयोः
गुह्याद्गुह्यतरं ब्रूहि व्रतं किंचिदनुत्तमम्
सांतःपुरसुतो यश्च चक्रे राज्यमतंद्रितः
जघान तापसं सोऽथ प्रमादान्मृगयां गतः
तेन कर्मविपाकेन देहांते नरकं गतः
तस्मादिहागतो मर्त्ये रौद्रो विषधरोऽभवत्
लब्ध्वा सह च पंचत्वं जगाम द्विजसंयुतः
विदारितमुखो हिंस्रो नानासत्त्वभयंकरः
ततोऽपि बहुभिः शस्त्रै राजलोकैर्निपातितः
तीक्ष्णपादनखाघातव्यापादितमृगान्वयः 4.65.
स नीतः कृमिराशित्वं लोकैः खातनिपातनात्
जघान बालं चण्डालादसौ मृत्युमवाप्नुयात्