चन्द्रलेखेव पतिता भूमौ भासितदिङ्मुखा 4.64.
उवाच भैमी सव्रीडं सैरंध्रीं मां निबोधताम्
यदि प्रार्थयते कश्चिद्दंड्यस्ते सांप्रतं भवेत् एवमस्त्वनवद्यांगि राज माताप्युवाच ताम्
एवंविधा तद्भवने कंचित्कालमनिंदिता आनयामास मुदितो दमयंतीं गृहं पितुः
मात्रा पित्रा समायुक्ता सुतैर्भ्रातृभिरेव च
प्रोवाच विमनाहूय व्रतं दानमथापि वा
तत्रेतिहासकुशलो विप्रः प्रोवाच बुद्धिमान्
चकार सर्वं तन्वंगी यत्पुराणविदा तदा
व्रतस्यास्य प्रभावेण दमयंत्या नरोत्तम
सर्वमेतत्समाचक्ष्व मां सर्वज्ञोसि यादव
भार्यार्थं तु वणिक्पुत्रः पुत्रार्थे गुर्विणी तथा ।। 4.64.
धर्मार्थकामसंसिद्धयै लोककन्या वरार्थिनी
चिरप्रवासिते कांते कालेन धृतिपंडिता
यदा यस्य भवेदार्तं कार्यते हि तदा व्रतम्
नक्तं तदाशाः संपूज्याः पुष्पालक्तकचन्दनैः दत्त्वा घृताक्तं नैवेद्यं पुनः कार्यं निवेदयेत्
आशाश्चाशाः सदा संतु विद्यंतां च मनोरथाः
एवं संपूज्य भुञ्जीत दत्त्वा विप्राय दक्षिणाम्
यावन्मनोरथः पूर्णस्ततः पश्चात्समुद्यमात्
सौवर्णाः कारयेदाशा रौप्यपिष्टातकेन वा
पूजयेन्मंत्रसंदर्भैरेभिर्ध्यात्वा गृहांगणे। पूर्वा चन्द्रेण सहिता ऐन्द्रीदिग्देवते नमः
अग्नेः परिग्रहादार्ये त्वमाग्नेयीति पठ्यसे 4.64.
देवराजं समासाद्य लोकः संयमयत्यसौ
खड्गंसहातिविकृता नैर्ऋतिस्त्वमुपाभृता
त्वय्यास्ते भवनाधारवरुणो यादसां पतिः
अधिश्रितासि यस्मात्त्वं वायुना जगदायुना
कुबेरवासतः सौम्या प्रख्याता त्वमथोत्तरा अतस्त्वं शिवसान्निध्यं देवि देहि शिवे नमः
सर्पाष्टककुलेन त्वं सेवितासि तथाप्यधः
सप्तलोकैः परिगता सर्वदा त्वं शिवा यतः
नक्षत्राणि च सर्वाणि ग्रहास्ताराग्रहास्तथा सर्वे ममेष्टसिद्ध्यर्थे भवंतु प्रणताः सदा
एभिर्मंत्रैः समभ्यर्च्य पुष्पधूपादिना ततः