क्रमेण भक्षयित्वा च यथोक्तं भरतर्षभ स्वत एवार्धमश्नीयाद्गत्वा रम्ये जलाशये
दशावतारानभ्यर्च्य पुष्पधूपविलेपनैः
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम्
गतोऽस्मि शरणं देवं हरिं नारायणं प्रभुम्
छिनत्तु वैष्णवीं मायां भक्त्या जातो जनर्दनः
एवं यः कुरुते पार्थ विधिनानेन सुव्रत
श्रूयते यास्त्विमालोच्य पुरुषाणां दशा दश
संसारसागरे घोरे मज्जत तत्र मां हरिः
किं तस्य न भवेल्लोके यस्य तुष्टो जनार्दनः मर्त्यलोके स्वयं पार्थ भूभारोत्तारकारणम्
या स्त्री व्रतमिदं पार्थ चरिष्यति मयोदितम् 4.63.
मर्त्यलोके चिरं स्थित्वा विष्णुलोके महीयते
ये पूजयंति पुरुषाः पुरुषोत्तमस्य मत्स्यादिकांस्तु दशमीषु दशावतारान्
आशादशमीवर्णनम् शृणुष्वावहितो वच्मि तवाशादशमीव्रतम्
नलनामाभवत्पूर्वं निषधेषु महीपते
अक्षैर्द्यूतेन राजेन्द्र निर्ययौ भार्यया सह
स गत्वा प्रत्यहोरात्रं जलमात्रेण वर्तयन्
ग्रहीतुमिच्छंस्तान्राजन्समाच्छाद्य स्ववाससा
गते तु नैषधे भैमी प्रबुद्धै वाञ्चितानना इतश्चेतश्च बभ्राम हाहेति रुदती मुहुः
दुःखशोकसमाक्रांता नलदर्शनलालसा
उन्मत्तवत्परिवृता शिशुभिः कौतुकाकुलैः
चन्द्रलेखेव पतिता भूमौ भासितदिङ्मुखा 4.64.
उवाच भैमी सव्रीडं सैरंध्रीं मां निबोधताम्
यदि प्रार्थयते कश्चिद्दंड्यस्ते सांप्रतं भवेत् एवमस्त्वनवद्यांगि राज माताप्युवाच ताम्
एवंविधा तद्भवने कंचित्कालमनिंदिता आनयामास मुदितो दमयंतीं गृहं पितुः
मात्रा पित्रा समायुक्ता सुतैर्भ्रातृभिरेव च
प्रोवाच विमनाहूय व्रतं दानमथापि वा
तत्रेतिहासकुशलो विप्रः प्रोवाच बुद्धिमान्
चकार सर्वं तन्वंगी यत्पुराणविदा तदा
व्रतस्यास्य प्रभावेण दमयंत्या नरोत्तम
सर्वमेतत्समाचक्ष्व मां सर्वज्ञोसि यादव