दशावतारचरित्रव्रतवर्णनम् दिव्यारामाश्रमे रम्या गृहकार्यैकतत्परा
बभूव सा भृगोर्नित्यं हृदयेप्सितकारिणी
विष्णोस्त्रासाद्दानवानां कुलत्राणसमाकुलम्
दत्त्वा निक्षेपकं सर्वं दिव्यायै सुमहातपाः
संजीवनीकृते नित्यं कणैर्धूममधोमुखः
आजगाम गते तस्मिन्गरुडेनाश्रितो हरिः
गलद्रुधिरसंपन्नं लोहितार्णववसंनिभम् दिव्या संशप्तुकामाभूद्विष्णुं सास्राविलेक्षणा
यावन्नोच्चरते वाचं चक्रेण कृत्तकंधरम्
प्राप्य संजीवनीं विद्यां यावदायात्यसौ मुनिः
रोषाच्छशाप च हरिं भ्रुकुटीकुटिलाननः 4.63.
यस्मात्त्वया हता दैत्या ब्रह्मणो मत्परिग्रहाः
अतोऽर्थं मानुषे लोके रक्षार्थं च महीक्षिताम्
पूर्वोक्तैः कारणैः पार्थ अवतीर्णं महीतले
समंत्रं सरहस्यं च सर्वपापप्रणाशनम्
श्रीकृष्ण उवाच प्रोष्ठपदे सिते पक्षे दशम्यां नियतः शुचिः
कृत्वा कुरुकुलश्रेष्ठ गृहमागत्य मानवः
क्रमेण पावयेत्तां तु पुंसंज्ञं घृतसंश्रितम्
प्रथमे पूरिकान्वर्षे द्वितीये घृतपूरकान्
सोहालकान्पञ्चमेऽब्दे षष्ठेऽब्दे खण्डवेष्टकान्
नवमे कर्णवेष्टांस्तु दशमे खण्डकाञ्छुभान् 4.63.
क्रमेण भक्षयित्वा च यथोक्तं भरतर्षभ स्वत एवार्धमश्नीयाद्गत्वा रम्ये जलाशये
दशावतारानभ्यर्च्य पुष्पधूपविलेपनैः
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम्
गतोऽस्मि शरणं देवं हरिं नारायणं प्रभुम्
छिनत्तु वैष्णवीं मायां भक्त्या जातो जनर्दनः
एवं यः कुरुते पार्थ विधिनानेन सुव्रत
श्रूयते यास्त्विमालोच्य पुरुषाणां दशा दश
संसारसागरे घोरे मज्जत तत्र मां हरिः
किं तस्य न भवेल्लोके यस्य तुष्टो जनार्दनः मर्त्यलोके स्वयं पार्थ भूभारोत्तारकारणम्
या स्त्री व्रतमिदं पार्थ चरिष्यति मयोदितम् 4.63.