कुमारी सुभगा देवी सिंहस्यंन्दनगामिनी मालतीकुसुमैर्द्दीपैर्गन्धधूपविलेपनैः
बलिभिः पशुभिर्मेध्यैः सुरामांसासृगम्बरैः मंत्रेणानेन कौंतेय ब्रह्मणोप्यथवा ननु
भद्रां भगवतीं कृष्णां विश्वस्य जगतो हिताम्
प्रपन्नोहं शिवां रात्री भद्रे पारय मे व्रतम् देवेभ्यो मानुषेभ्यश्च भयेभ्यो रक्ष मां सदा ।। 4.61.
ततश्चारोपयेद्राजा देवीनां भवने तथा
उपवासेन कुर्वीत एकभक्तेन वा पुनः
एवं ये पूजयिष्यंति ध्वजैर्भगवतीं नराः
रणे राजकुले गेहे युद्धमध्ये जले स्थिते
अस्यां बभूव विजयो नवम्यां पांडुनंदन
धन्या पुण्या पापहरा सर्वोपद्रवनाशनी
देव्यर्चनाहितमतिर्मनुजो नवम्यां हेमस्रजं ध्वजवरं स हि रोपयेद्यः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ध्वजनवमीव्रतवर्णनं नामैकषष्टितमोऽध्यायः
उल्कानवमीव्रतवर्णनम् । उल्काख्यं नवमीं राजन्कथयामि निबोध ताम्
अश्वयुक्छुक्लपक्षे या नवमी लोकविश्रुता
पश्चात्संपूजयेद्देवीं चामुण्डां भैरवप्रियाम्
पूजयित्वा स्तवं कुर्यान्मन्त्रेणानेन मानवः
महिषघ्नि महामाये चामुण्डे मुण्डमालिनि
कुमारीर्भोजयेत्पश्चान्नवनीलसुकंचुकैः
सप्त पञ्चाप्यथैकां वा चित्तवित्तानुरूपतः
अभ्युक्ष्य मण्डलं कृत्वा गोमयेन शुचिस्मितः
ततः सुसिद्धमन्नं यत्तत्सर्वं परिवेषयेत्
तृणानि षष्टिमादाय चादाय धमनीं तथा 4.62.
प्रशांते भोजनं त्यक्त्वा समाचम्य प्रसन्नधीः
अनेन विधिना सर्वं मासिमासि समाचरेत्
वस्त्रैराभरणैः पूज्य प्रणिपत्य क्षमापयेत्
य एवं कुरुते पार्थ पुरुषो नवमीव्रतम्
भूताः प्रेताः पिशाचा नो जनयंति भयं गृहे
तं रक्षति सदोद्युक्ता सर्वास्वापत्सु चंडिका उल्कावत्स सपत्नानां ज्वलन्नास्ते सदा हृदि
तां शुष्ककोहरमुखीं प्रकटोरुदंष्ट्रां कापालिनीं समवलंबितमुण्डमालाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद उल्कानवमी व्रतवर्णनं नाम द्विषष्टितमोऽध्यायः