मुक्ताट्टहासभैरवदुःसहतरचकितसकलदिक्चक्रा
पटुपटहमुरजमर्दलझल्लरिझङ्कारनर्तितावयवा
शांता प्रशांतवदना सिंहवरा ध्यानयोगत न्निष्ठा
पक्षपुटचंचुघातैः संचूर्णितविविधशत्रुसंघाता 4.61.
पर्यटति जगति हष्टा पितृवननिलयेषु योगिनीसहिता
इति नवदुर्गासंस्तवमनुपममार्याभिरपरराट् कृत्वा
पुनःपुनः प्रणम्योचुर्भवानीं सिंहवाहिनीम्
देवानां तद्वचः श्रुत्वा दत्त्वा तेभ्योऽभयं ततः
युयुधे दानवैस्सार्धं महासमरदुर्दिनम्
तेऽपि तत्रासुराः प्राप्ताः प्रचंडा रुद्ररूपिणः
महाग्राहपराक्रांता दुष्टमायाविनष्टये
इन्द्रमारी असत्क्लेशः प्रलंबो नरकः सुतः
इल्वलो नमुचिर्भौमो वातापि धेनुकः कलिः
रहः पौंडूादिदैत्येन्द्राः प्राधान्येन प्रकीर्तिताः 4.61.
रूपतो वर्णिताश्चैव ध्वजास्तेषां पृथक्पृथक्
काञ्चनाः काञ्चना पीडाः काञ्चनस्रगलंकृताः
नील्यः पीताः सिता रक्ताः कृष्णास्राः पञ्चवर्णकाः
पताकाकान्तिरनला नर्तक्य इव शोभनाः
ततो हलहलारावं चक्रुस्ते दानवोत्तमाः न्यवादयंतानकान्ये शंखाडंबरडिंडिमान्
एवं ते समयुध्यंत भवानीं दैत्यदानवाः कर्णकैरीषणैः कुन्तैः शतघ्नीकूटमुद्गरैः
आहत्य मानरोषेण जज्वलुः समरेऽधिकम्
आच्छिद्याच्छिद्य चिह्नानि ध्वजान्नानाविधांस्तथा
चिह्नकानि ददौ तुष्टा देवेभ्यः शीघ्रचारिणी
अंबिका तु भृशं तुष्टा तेषां चक्रे क्षणात्क्षयम् जीवितानि च जग्राह दैत्यानां देवनंदिनी ।।4.61.
अथ रक्तासुरं कंठे गृहीत्वापात्य भूतले
स भिन्नहृदयः पश्चाद्भूमौ तत्र प्रपोथितः
देवास्तानसुराञ्जित्वा गत्वा शत्रुपुरं जितम् यात्रां चक्रुः संप्रहृष्टा नवम्यां ध्वजचिह्निताम्
अतोद्यापीह भूपालैर्जयलब्धीच्छयादृतैः
सरहस्यं समंत्रं च येन तुष्यति चंडिका
तस्यां स्नात्वा शुभैः पुष्पैरर्चनीया हरेः स्वसा