मंत्रेणानेन राजेन्द्र कृत्वा ब्राह्मणभोजनम् अनग्निपाकं भूपात्रे दधिपुष्पफलैः शुभम्
एवं यः कुरुते पार्थ श्रीवृक्षस्यार्चनं नरः
सप्तजन्मांतरं यावत्सुखसौभाग्यसंयुता
श्रीवृक्षमक्षतफलं वसितं नवम्यां नैवेद्यपुष्पफलवस्त्रविचित्रधान्यैः 4.60.
ध्वजनवमीव्रतवर्णनम् पूर्ववैरमनुस्मृत्य संग्रामा बहवः कृताः
नानारूपधरा देवी अवतीर्य पुनःपुनः
अथ रक्तासुरो नाम महिषस्य सुतो महान् तस्मै ददौ चतुर्वक्त्रो राज्यं त्रैलोक्यमण्डले
तेन लब्धं वरेणाथ मेलयित्वा दनोः सुतान्
तद्दृष्ट्वा दानवबलं सन्नद्धात्युद्धतध्वजम्
तत्र प्रावर्तत नदी शोणितौघतरंगिणी वहंती पितृलोकाय सुरासुरभयानका
अथ रक्तासुरो रोषाद्युयुधे विबुधैः सह
भ्रष्टाः स्वर्गं परित्यज्य त्यक्तप्रहरणा द्रुतम्
दुर्गा चामुण्डया सार्धं नवदुर्गासमन्विता
शिवदूती महारुण्डा भ्रामरी रुद्रमंगला एतासां ते स्तुतिं चक्रुस्त्रिदशाः प्रणताननाः ।। 4.61.
अमरपतिमुकुटचुम्बितचरणांबुजसकलभुवनसुखजननी
विकृतनखदशनभूषणरुधिरवशाच्छुरितक्षतखड्गहस्ता
प्रच्छादितशिखिगणोद्बलविकटजटाबद्धचन्द्रमणिशोभा
करकमलजनितशोभा पद्मासनबद्धपद्मवदना च
दिग्वसना विकृतमुखा फेत्कारोद्दाम पूरितदिशौघा
क्रोशितब्रह्मांडोदरसुरवरमुखरहुंकृतनिनादा
मुक्ताट्टहासभैरवदुःसहतरचकितसकलदिक्चक्रा
पटुपटहमुरजमर्दलझल्लरिझङ्कारनर्तितावयवा
शांता प्रशांतवदना सिंहवरा ध्यानयोगत न्निष्ठा
पक्षपुटचंचुघातैः संचूर्णितविविधशत्रुसंघाता 4.61.
पर्यटति जगति हष्टा पितृवननिलयेषु योगिनीसहिता
इति नवदुर्गासंस्तवमनुपममार्याभिरपरराट् कृत्वा
पुनःपुनः प्रणम्योचुर्भवानीं सिंहवाहिनीम्
देवानां तद्वचः श्रुत्वा दत्त्वा तेभ्योऽभयं ततः
युयुधे दानवैस्सार्धं महासमरदुर्दिनम्
तेऽपि तत्रासुराः प्राप्ताः प्रचंडा रुद्ररूपिणः