धूपगंधारसी चापि दीपवृक्षं सुशोभनम् 4.59.
चतुरस्रं त्रिकोणं च मण्डलं कारयेत्ततः
संकल्प्य द्विजदांपत्यं वासोभिर्भूषणैस्तथा दीपकैः पञ्चविंशद्भिर्भोजयित्वा विसर्जयेत्
अब्दपञ्चकमेकं वा एवं यः कुरुते नरः
आ देहपतनाद्यस्तु नित्यमेतत्समाचरेत्
न स्पृशंत्यापदस्तस्य न दुःखी भवति क्वचित्
संप्राप्यादित्ययोगेन प्राग्विधानेन चाभ्यसेत्
किंतु दक्षिणतंत्रस्थं भास्करं वार्चयेद्बुधः
कुंकुमेन समालभ्य चन्दनेन शिवं तथा
रुद्रबीजं परं पूतं प्रियं रुद्रस्य सर्वदा
शेषः पूर्वविधानेन कर्तव्यो विधिविस्तरः ।। 4.59.
एतत्प्राक्च विधायाब्दं पञ्चाब्दानेवमेव च
पतंगवत्प्रतापी स्याददीनश्च जन प्रियः
यद्यष्टमी भवति सोमयुता कदाचिदर्केण वा कुरुकुलोद्वह तामुपोष्य
श्रीवृक्षनवमीव्रतवर्णनम् दैत्यानां मोहनार्थाय योषिद्भूते जनार्दने
बिल्वे वृक्षे क्षणं श्रांता विश्रांता कमलालया
जिताः सर्वे पुरा पार्थ युद्धे कृष्णेन चक्रिणा
श्रीः समावासिता यस्माच्छ्रीवृक्षस्तु ततः स्मृतः
नवम्यामर्चयेद्भक्त्या ईषत्सूर्योदये नगम्
तिलपिष्टान्नगोधूमैर्धूपगन्धस्रगंबरैः
मंत्रेणानेन राजेन्द्र कृत्वा ब्राह्मणभोजनम् अनग्निपाकं भूपात्रे दधिपुष्पफलैः शुभम्
एवं यः कुरुते पार्थ श्रीवृक्षस्यार्चनं नरः
सप्तजन्मांतरं यावत्सुखसौभाग्यसंयुता
श्रीवृक्षमक्षतफलं वसितं नवम्यां नैवेद्यपुष्पफलवस्त्रविचित्रधान्यैः 4.60.
ध्वजनवमीव्रतवर्णनम् पूर्ववैरमनुस्मृत्य संग्रामा बहवः कृताः
नानारूपधरा देवी अवतीर्य पुनःपुनः
अथ रक्तासुरो नाम महिषस्य सुतो महान् तस्मै ददौ चतुर्वक्त्रो राज्यं त्रैलोक्यमण्डले
तेन लब्धं वरेणाथ मेलयित्वा दनोः सुतान्
तद्दृष्ट्वा दानवबलं सन्नद्धात्युद्धतध्वजम्
तत्र प्रावर्तत नदी शोणितौघतरंगिणी वहंती पितृलोकाय सुरासुरभयानका