मृत्युकाले द्विजसुतो विहस्योच्चै रुरोद ह
इति श्रुत्वा नृपः प्राह शृणु वैतालिक द्विज
ज्ञात्वा स मध्यमः पुत्रो राजानं शरणं ययौ
खङ्गहस्तं नृपं ज्ञात्वा जहास शिवतत्परः
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चय एकोनविंशोऽध्यायः
विशालनगरे रम्ये विपुलेशो महीपतिः
तस्य ग्रामेवसद्वैश्योर्थदत्तोविपणे रतः
सुवर्णनाम्ने वैश्याय पिता वै दत्तवान्स्वयम् द्रव्यलाभाय न्यवसच्चिरं कालं स लुब्धवान्
अनंगमंजरीगेहे दैवयोगाद्द्विजोत्तमः
होमांते सुन्दरी नारी मार्जनार्थे सुता गता
सुतापि मदघूर्णाक्षी विप्राय समयं ददौ
इति श्रुत्वा द्विजो वाक्यं तस्या ध्यानं तदाकरोत्
अर्द्धरात्रे तु सा नारी द्विजागमनतत्परा
नागतः स द्विजो दैवात्तदा सा मरणं गता
दृष्ट्वा मृत्युवशां सुभ्रूं स्वयं मरणमागतः 3.2.20.
सुवर्णश्च तदागत्य विललाप प्रियां प्रति
इत्युक्त्वा स तु वैतालो नृपतिं प्राह विक्रमम्
द्विजस्नेहेन सा नारी मृता स्वर्गपुरं ययौ
वैश्यवर्णैः सदा पूज्यो ब्राह्मणो ब्रह्ममूर्तिमान्
द्विजोऽपि नाप्तवान्नारीं तदा स्वर्गगतिं हरिम्
सुवर्णो हृदि संज्ञाय मत्प्रिया ब्रह्मवत्सला
इति श्रीभीविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियु गीयेतिहासमुच्चये विंशोऽध्याय
सूत उवाच जयस्थलपुरे रम्ये वर्धमानो नृपोभवत्
तस्य ग्रामेवसद्विप्रो वेदवेदांगपारगः
चत्वारश्चात्मजास्तस्य चतुर्भागपरायणाः
कदाचिद्दैवयोगेन निर्द्धनत्वं च ते गताः
ऊचू रमा कथं नष्टा तद्वदस्व पितः प्रिय
द्यूतो धनव्ययकरः पापमूलो महाखलः द्यूतकर्मप्रभावेण त्वदीयद्रव्यसंक्षयः
धनोपायेन भोः पित्रोर्वाक्यं कुरु मतिं प्रति
हे पुत्र कुलट त्वं वै वेश्यासंगं महाशुभम्