तेनेयं वरलब्धेन कार्तवीर्येण योगिना
अघं पापं स्मृतं लोके तच्चापि त्रिविधं भवेत्
तस्याष्टगुणमैश्वर्यं विनोदार्थं विभाव्यते
ईशित्वं च वशित्वं च सर्वकामावसायिता
समुत्पन्ना दत्तकस्य लोके प्रत्ययकारकाः
जगत्समस्तमनघं कुर्यादस्मादतोऽनघा
चक्रे वा त्रिषु लोकेषु कैर्मन्त्रैः समयैश्च कैः 4.58.
अनघं चानघां चैव बहुपुत्रैः समन्विताम्
पुरा कृतीकृतौ शांतौ भूमिभागे स्थितौ शुभौ
ऋग्वेदोक्तऋचा विप्रो विष्णुं ध्यात्वा ममांशजम् प्रद्युम्नादिपुत्रवर्गं हरिवंशे यथोदितम् ।। ६३ ॐ अतो देवा अवंतु नो यतो विष्णुर्विचक्रमे इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे तद्विष्णोः परमं पदं सदा पश्यंति सूरयः तद्विप्रासो विपन्यवो जागृवांसः समिंधते लोकोद्भवैः फलैः कन्दैः शृंगारैर्बदरैः शुभैः
यः पूजयेद्भक्तियुक्तः सर्वपापैः प्रमुच्यते
व्रतावसाने गृह्णीयात्कश्चिदेको नरो व्रतम्
इदं जीवनघाती चेत्सत्यं तु समयोषितम्
तत्रोपेक्षणकं कार्यं नटनर्तकगायकैः
एवं यः कुरुते यात्रां वर्षेवर्षे च हर्षितः
कुटुंबं वर्द्धते तस्य यस्य विष्णुः प्रसीदति 4.58.
एतामघौघशमनामनघाष्टमीं च कौंतेय संप्रति मया कथिता हिताय
सोमाष्टमीव्रतवर्णनम् शिवलोकप्रदं पुण्यं विधिवन्मे निबोधताम्
वारे सोमे सिताष्टम्यां पक्षे सोमं समर्चयेत्।। विधिना चन्द्रचूडालं प्राप्यमेतत्स चन्द्रकम् । । २ दक्षिणार्धे हरिं ध्यात्वा मध्ये तु परितः प्रभुम् । पञ्चामृतादिना देवं स्थापयित्वा यतव्रती । । ३ चन्दनेनेन्दुयुक्तेन दक्षिणार्धं विलेपयेत् । हरभागं नीलरक्तं शिवस्योपरि मौक्तिकम् । । ४ पश्चात्पुष्पैः समभ्यर्च्य सितं रक्तैरनुत्तमैः । नीराजनं पुनः कुर्यात्पञ्चविंशतिदीपकैः । । अथ सिद्धैः शुभैर्भक्ष्यैनेवद्यं विनिवेदयेत् । । ५ एवंकृतोपवासस्तु प्रभाते पूर्ववच्छिवम् । सम्पूज्याज्यं तिलैर्मिश्रं जुहुयाज्जातवेदसि । । ६ व्रतिनो ब्राह्मणान्पश्चाद्भोजयित्वा विधानतः । मिथुनानि तु सम्भोज्य यथाशक्त्यनुपूजयेत् । । ७ आवर्त्य पितरावर्च्य विधिना तेन सुव्रत
प्रागुक्वविधिना पूज्या सितपीतयुगद्वयम्
धूपगंधारसी चापि दीपवृक्षं सुशोभनम् 4.59.
चतुरस्रं त्रिकोणं च मण्डलं कारयेत्ततः
संकल्प्य द्विजदांपत्यं वासोभिर्भूषणैस्तथा दीपकैः पञ्चविंशद्भिर्भोजयित्वा विसर्जयेत्
अब्दपञ्चकमेकं वा एवं यः कुरुते नरः
आ देहपतनाद्यस्तु नित्यमेतत्समाचरेत्
न स्पृशंत्यापदस्तस्य न दुःखी भवति क्वचित्
संप्राप्यादित्ययोगेन प्राग्विधानेन चाभ्यसेत्
किंतु दक्षिणतंत्रस्थं भास्करं वार्चयेद्बुधः
कुंकुमेन समालभ्य चन्दनेन शिवं तथा
रुद्रबीजं परं पूतं प्रियं रुद्रस्य सर्वदा