तथोर्द्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य हि
एकाहाद्द्रुतमभ्येत्य कार्तवीर्योर्जुनो नृपः
गात्रसंवाहनं पूजां मनसा चिंतितं तथा
तस्यै ददौ वरान्पुष्टांश्चतुरो भूरितेजसः
अधर्माद्धीयमानस्य सद्भिस्तस्मान्निवारणम्
संग्रामान्सुबहूञ्जित्वा हत्वा वीरान्सहस्रशः
चक्रवर्तिपदं चैव अष्टसिद्धिसमन्वितम् ।। 4.58.
तेनापि पृथिवी कृत्स्ना सप्तद्वीपा सपर्वता
तस्य बाहुसहस्रं तु प्रभावात्किल धीमतः
दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु
सर्वे यज्ञा महाबाहो प्रसन्ना भूरिदक्षिणाः
गंधर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः
तस्य यज्ञे जगुर्गाथां गंधर्वा नारदस्तथा
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः
द्वीपेषु सप्तसु स वै खड्गचर्मशरासनी
अनष्टद्रव्यता चास्य न शोको न च वै क्लमः
पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिप 4.58.
स एव पशुपालोभूत्क्षेत्रपालः स एव च
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा
न हि नागमनुष्यैस्तु माहिप्मत्यां महाद्युतिः
स वै पत्नीं समुद्रस्य प्रावृट्कालेंबुजेक्षणाम्
ललितं क्रीडता तेन फलनिष्पन्दमालिनी
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ
तूष्णीकृतो महाभाग लीनाहीनमहामतिः
क्रांता निश्चलमूर्द्धानो बभूवुश्च महोरगाः जिता धनुर्धराः सर्वे सुत्यक्तैः पञ्चभिः शरैः
लङ्काधिपं मोहयित्वा सबलं रावणं बलात्
ततोभ्येत्य पुलस्त्यस्तु अर्जुनं संप्रसादयन् तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ।। 4.58.
क्षुधितेन कदाचित्स प्रार्थितश्चित्रभानुना
कुंडेशयस्ततोऽद्यापि दृश्यते भगवान्हरिः बभूव दुहितुर्हेतोः शरदोऽद्यापि तिष्ठति
स एवं गुणसंयुक्तो राजाभूदर्जुनो भुवि